पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३०८
[तृप्तिदीप
पञ्चदशी

 मशकध्वनिमुख्यानां चित्तैकाग्र्यस्य विक्षेपाणां बहुत्वतो विद्यमानत्वाद्घटादीनां विद्या यथा दृढा तव द्वैतविस्मृतिरूपा विद्या निर्विकल्पसमाधावपि न दृढा स्यात् । समाधावपि मशकादिध्वनिभिः कदाचिद्विक्षेपसंभवात् । तत्र द्वैत प्रतीत्यभावो न दृढ इति घटाद्यपेक्षयैवंवादिना त्वया योगिषु न्यूनत्वमभ्युपेयम् स्यादिति परिहासः ॥ १८८ ॥

 तर्ह्यात्मतत्त्वज्ञानमेव विद्या, तथापि चित्तस्य दुष्टत्वात्तेन प्रतिबन्धो मा भूदिति तन्निरोधार्थं योग आवश्यकश्चेदिष्टापत्तिरेवास्माकं तदित्याहि, आत्मेति ।

आत्मधीरेव विद्येति यदि तर्हि सुखीभव ।
दुष्टचित्तं निरुन्ध्याश्चेन्निरुन्धि त्वं यथासुखम् ॥१८९॥

 उपहासभयादात्मधीरेव विद्येति यदि त्वयाऽभ्युपगम्यते तर्हि एतावन्मात्रं ज्ञानं त्वय्युदगादिति सुखीभव । किंत्वात्मज्ञानसिद्धये दुष्टचित्तं विषयासक्ततया दुष्टमयोग्यं यत्तव चित्तं तन्निरुन्ध्याः । इत्यपि वदसि चेत् त्वं यथासुखं निरुन्धि नियच्छ। आत्मनो यथार्थज्ञानमेव विद्या । सा च चित्तनिरोधेन सिध्यतीति, भावः ॥१८९ ॥

 तत्रेष्टापत्तिं दर्शयति, तदिति ।

तदिष्टमेष्टव्यमायामयत्वस्य समीक्षणात् ।
इच्छन्नप्यज्ञवन्नेच्छेत्किमिच्छन्निति हि श्रुतम् ।। १९०॥

 एष्टव्यमायामयत्वस्य अद्वितीयात्मज्ञानसिद्धये एष्टव्यमपेक्षितव्यं यन्माया- मयत्वं जगतो मायापरिकल्पितत्वं तस्य समीक्षणात्तच्चित्तनिरोधनमस्माकमपीष्टमेव । ज्ञानी विषयान् प्रारब्धकर्मवशादिच्छन्नप्यज्ञवन्नेच्छेत् । एवं किमिच्छन्निति । मन्त्रांशेनाभिप्रेतमर्थं निगमयति । अयं भावः । प्रारब्धकर्मणामुपभोगेन क्षय इति तत्क्षयाय ज्ञानी विषयानिच्छति, तत्र नानुरज्यति, प्रत्युत क्लिश्यति । अज्ञानी तूत्तरोत्तराभिवृद्धिर्भवतु मे कामोपभोगस्येति विषयानिच्छतीत्यनुरज्यति । इदमेवं वैलक्षण्यं श्रुत्या प्रतिपादितमित्याह, किमिच्छन्निति । किमिच्छन्निति श्रुतौ श्रुतं प्रतिपादितम् ॥ १९० ॥