पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३११
कल्याणपीयूषव्याख्यासमेता

 स्पष्टा पदयोजना । भोक्तृवं नाम विकारित्वम्, कूटस्थत्वं नाम निर्विकारित्वं, तथा च कूटस्थो विकारो विकारशून्य इति च मम माता वन्ध्येतिवद्विरुध्यते । नाऽतो भोक्तृत्वं कुटस्थाश्रयकम् ॥ १९५ ॥

 द्वितीयं परिहरति, विकारीति ।

विकारिबुद्ध्यधीनत्वादाभासे विकृतावपि ।
निरधिष्ठानविभ्रान्तिः केवला न हि तिष्ठति ॥ १९६ ॥

 विकारिबुद्ध्यधीनत्वात् विकारिणी या बुद्धिस्तस्या अधीनत्वाच्चिदाभासे विकृतावप्यन्तःकरणप्रतिबिम्बफलभूतस्य चिदाभासस्य तद्गुणविशिष्टत्वेऽपि चिदाभासस्यारोपितत्वेन आरोपितज्ञानस्याधिष्ठानमन्तराऽसंभवेन केवला आरोपितमात्र- विषयिणी निरधिष्ठानभ्रान्तिः अधिष्ठानानवगाहि भ्रमात्मकं ज्ञानं न हि तिष्ठति । केवलचिदाभासस्य विकारित्वेऽपि कूटस्थरूपाधिष्ठानं विना स न संभवतीति न केवलचिदाभासस्यापि भोक्तृत्वं संभवतीति भावः । १९६॥

 पारिशेष्यादुभयात्मको भोक्तृत्वाश्रय इति सिद्धमित्याह उभयात्मक,इति।

उभयात्मक इत्येवाऽतो लोके भोक्ता निगद्यते
तादृगात्मानमारभ्य कूटस्थः शेषितः श्रुतौ ॥ १९७ ॥

 अत: कूटस्थचिदाभासयोः प्रत्येकं भोक्तृत्वासंभवाल्लोके उभयात्मकः कूटस्थसहितचिदाभासो भोक्तेति निगद्यते कथ्यते । लोके इत्युक्तया वस्तुतः उभयात्मको नास्तीति प्रतीयते, ननूभयात्मकः श्रुतिसिद्ध एव । “योऽयं विज्ञानमयः प्राणेषु” “असंगोह्यं पुरुषः" (बृ. ४. ३. १५) इत्यादिषुभयात्मकत्वमुक्तमित्याशंक्य तच्छृतेस्तस्य पारमार्थिकत्वे न तात्पर्यमित्याह, तादृगिति । तादृगात्मानं बुद्ध्युपाधिकृतभोक्तृत्वाद्युपेतमात्मानमारभ्य अनूद्य "नायमात्मेति" सर्वभोक्तृत्व- मपसृत्य कूटस्थो निर्विकारश्चिदात्मा “स एष नेति नेत्यास्माऽगृह्यो न हि गृह्यते" इति, (बृ. ३. १. २६)श्रुतौ कूटस्थ: शेषितः परिशिष्टतयोक्त: । अत उभयात्मको न पारमार्थिकः, अत उक्तं लोके इति भावः ॥ १९७ ॥