पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३१५
कल्याणपीयूषव्याख्यासमेता

अणिमादिप्रेप्सयैवं विविच्यात् स्वं मुमुक्षया ॥ २०८ ॥

 अणिमादिप्रेप्सया अणिमाद्यष्टैश्वर्यस्य प्राप्तीच्छया । स्वमात्मानं देहादिभ्यो विविच्यात् विविच्य जानीयात् । स्पष्टमन्यत् ॥ २०८ ॥

 एवमभ्यासफलमाह, कौशलानीति ।

कौशलानि विवर्धन्ते तेषामभ्यासपाटवात् ।
यथा तद्वद्विवेकोऽस्याप्यभ्यासाद्विशदायते ॥ २०९ ॥

 यथा तेषां कौशलान्यनायासेन फलप्राप्तिसाधननैपुण्यान्यभ्यासपाटवात् पौनःपुन्येनाचरणस्य पाटवात् विवर्धन्ते विशेषेणाभिवर्धन्ते । तद्वदस्याऽपि मुमुक्षोर्विवेको देहाद्यात्मविवेचनाशक्तिरभ्यासाद्विशदायते विस्पष्टं मनोगोचरतामेति॥२०९

 विवेकवैशद्यफलमाह, विविञ्चतेति ।

विविञ्चता भोक्तृतत्त्वं जाग्रदादिष्वसंगता ।
अन्वयव्यतिरेकाभ्यां साक्षिण्यध्यवसीयते ॥ २१० ॥

 एवं विवेचनावैशद्ये सत्यन्वयव्यतिरेकाभ्यां भोक्तृतत्त्वं आत्मनःपारमार्थिकस्वरूपं विविञ्चता विषयेभ्यः पृथक्करणेन जानता मुमुक्षुणा जाग्रदादिषु आदि शब्देन स्वप्नसुप्तिमूर्छामरणसमाधयो गृह्यन्ते, तेष्वसङ्गताऽध्यवसीयते निश्चीयते ॥२१०॥

 उक्तनिश्चयप्रयोजकावन्वयव्यतिरेकौ सामान्यमुखेन प्रदर्शयति, यत्रेति ।

यत्र यद्दृश्यते द्रष्ट्रा जाग्रत्स्वप्नसुषुप्तिषु ।
तत्रैव तन्नेतरत्रेत्यनुभूतिर्हि सम्मता ॥ २११ ॥

 जाग्रत्स्वप्नसुषुप्तिषु यत्र यस्यामवस्थायां यद्वस्तु चिद्रूपेण द्रष्टा दृश्यते तत्तत्रैव तस्यामवस्थायामेव नेतरत्रेत्यनुभूतिरनुभवः सर्वेषां सम्मता अभिमतेति हि। सुप्रसिद्धमेव । अयं भावः । जाग्रदवस्थायाः सत्वे बाह्यप्रपञ्चभोगः, तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां बाह्यप्रपञ्चभोगजाग्रदवस्थयोर्व्याप्यव्यापकभावे सिद्धे