पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१६
[तृप्तिदीप
पञ्चदशी

जाग्रदवस्थाशून्यत्वे बाह्यप्रपञ्चभोगाभावो, व्यापकाभावात् व्याप्याभाव इति नयेन साक्षिणि सिध्यति । भोग एव संगः। तेन बाह्यप्रपञ्चसंगाभाववान् साक्षीति निश्चेतुं शक्यम् । एवं तद्विषयभोगतत्तदवस्थयोर्व्याप्यव्यापकभावबलादवस्थात्रय- शून्ये सर्वविषयभोगरूपसंगराहित्यं साक्षिणि निश्चीयते ॥ २११ ॥

 न केवलानुभवसिद्धोऽयं किंतु शास्त्रसम्मतोऽपीत्यभिप्रायेण तद्बोधिकां श्रुतिमर्थतः पठति, स इति ।

स यत्तत्रेक्षते किञ्चित्तेनानन्वागतो भवेत् ।
दृष्ट्वैव पुण्यं पापं चेत्येवं श्रुतिषु डिंडिमः ॥ । २१२ ॥

 स आत्मा तत्र जाग्रति स्वप्ने वा यत्किञ्चित्भोग्यम् सुखं दुःख वेक्षते । तेन सुखेन दुःखेन वा अनन्वागतोऽनुसृत्य गतो न भवेत् । तद्विशिष्टो नागच्छति । अगृहीतपूर्वावस्थानुभवोऽवस्थान्तरं याति । दृष्ट्वैव पुण्यं च पापं च पुण्यपापफले दृष्ट्वैव न तु तदादायावस्थान्तरंप्रति गच्छतीति श्रुतिषु डिंडिम उद्धोषः श्रूयते । “स एवास्मिन् संप्रसादे रत्वा चरित्वा दृष्ट्वैव पुण्यं च पापं च पुनः प्रतिन्यायं प्रतियोन्यां द्रवती”ति (बृ.४.३.१५) श्रुतेः । एवं च भोगदर्शनमात्रमेवात्र न तु भोगवैशिष्ट्यं । भोगः संग इत्युक्तमेव । एवं चासंग इति सिद्धम् ॥ २१२ ॥

 भोक्तृतत्वविवेचनाप्रतिपादकं ,कैवल्योपनिषद्वाक्यं (१-१७)पठति,जाग्रदिति ।

जाग्रत्स्वप्नसुषुष्त्यादिप्रपञ्चं यत्प्रकाशते ।
तद्ब्रह्माहमिति ज्ञात्वा सर्वबंधैः प्रमुच्यते ।। २१३॥

 यत्सच्चिदानन्दस्वरूपं परं ब्रह्म जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं आदिशब्देन समाधिर्गृह्यते प्रकाशते स्वेन भासा भासयते तत् ब्रह्माहमस्मीति ज्ञात्वा पारोक्ष्या- पारोक्ष्याभ्यां निश्चित्य सर्वबन्धैः प्रमुच्यते । तथा च तस्य तद्भासकत्वमेव न तु तेन संग इति भावः ॥२१३ ॥

 सर्वावस्थास्वप्यसंगात्मकत्वामिति प्रतिपादिकां ब्रह्मबिंदूपनिषदमक्षरतः पठात, एकइति ।