पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३४९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३१७
कल्याणपीयूषव्याख्यासमेता

एक एवात्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु ।
स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते ॥ २१४ ॥

 जाग्रत्स्वप्नसुषुप्तिष्वेक एवासंग आत्मेति मन्तव्यो भावनीयः । एवं विवेकी ज्ञानेन स्थानत्रयव्यतीतस्य जाग्रदादेरतीतस्य अत एव मुक्तस्य शरीरपातानन्तरं पुनर्जन्म न विद्यते ॥ २१४॥

 अस्मिन्नर्थेऽन्यामपि कैवल्यश्रुतिं (१-१८), पठति, त्रिष्विति ।

त्रिषु धामसु येद्भोग्यं भोक्ता भोगश्च यद्भवेत् ।
तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः ॥२१५॥

 त्रिषु धामसु जाग्रदादिषु यद्भोग्यं विषयजातं यो भोक्ता विश्वतैजसप्राज्ञ रूपः यो भोगश्च भवेत्तेभ्यो विलक्षणो यः साक्षी चिन्मात्रः सदाशिवः सततं मंगलकरः परमात्माऽस्ति सोऽहमस्मीत्यर्थः ॥२१५॥

 तत्स्वस्यासंगत्वे निश्चिते सति भोक्तृत्वमाभासेऽवशिष्यत इत्याह, एवमिति।

एवं विवेचिते तत्त्वे विज्ञानमयशब्दतः ।
चिदाभासो विकारी यो भोक्तृत्वं तस्य शिष्यते ॥२१६॥

 आत्मतत्त्वे एवमसंगत्वेन विवेचिंते सति विज्ञानमयशब्दतो विज्ञानमयशब्देन व्यवह्रियमाणो जीवैकदेशभूतो विकारी यश्चिदाभासो विद्यते तस्य भोक्तृत्वं शिष्यते । तस्य भोगसंबंधोऽवशिष्यते ॥२१६ ॥

 नन्वेतावता प्रबंधेन विविक्तचिदाभासस्य भोक्तृत्वं निरूपितम् । एवं च भोक्त्रभावप्रतिपादिका ‘‘कस्य कामायेति” श्रुतिर्विरुध्येतेत्याशंक्य तस्याः पारमार्थिकभोक्त्रभावपरत्वान्न विरोध इति समाधत्ते, मायिक इति ।

मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि ।
इन्द्रजालं जगत्प्रोक्तं तदन्तःपात्ययं यतः ॥ २१७॥

 अयं चिदाभासो "जीवेशावाभासेन करोतीति" श्रुतेर्ब्रह्मविदामनुभवादपि