पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
[तृप्तिदीप
पञ्चदशी

च मायिको मायाकल्पितः। मिथ्यास्वरूपः । विदुषामनुभवस्य मायिकानुभवत्वं स्फोरयितुं पूर्वोक्तम् जगतो मायिकत्वं स्मारयति, इन्द्रजालमिति । स्पष्टमुत्तरार्धम् । चिदाभासस्य जगदन्तःपातित्वात्तस्याऽपि मायिकत्वमनुभूतमेव ॥२१७॥

 एवं चिदाभासस्य मायिकत्वमनुमानेन प्रदर्श्य साक्षादपि प्रदर्शयति, विलय इति ।

विलयोऽप्यस्य सुप्तादौ साक्षिणाह्यनुभूयते ।
एतादृशं स्वस्वभावं विविनक्ति पुनः पुनः ॥ २१८ ॥

 सुप्त्यादैौ सुषुप्तिमूर्छयोरस्य चिदाभासस्य विलयो नाशः साक्षिणाऽनुभूयते हि । एतादृशं मिथ्याभूतं स्वस्वभावं स्वस्य मिथ्यात्मकत्वं पुनः पुनर्विविनक्ति कूटस्थाद्विविच्य जानाति ॥२१८ ॥

 स्वविलयस्य निश्चये सति भोगेच्छा नोदेतीत्याह, विविच्येति ।

विविच्य नाशं निश्चित्य पुनर्भोगं न वाञ्छति ।
मुमूर्षु: शायितो भूमौ विवाहं कोऽभिवाञ्छति ॥ २१९॥

 स्पष्टोऽर्थः ॥२१९॥

 एवं ज्ञानोत्पत्त्यनन्तरं भोगान् प्रति विलज्जत इत्याह, जिह्वेति ।

जिह्वेति व्यवहर्तुं च भोक्ताऽहमिति पूर्ववत् ।
छिन्ननास इव ह्वीतः क्लिश्यन्नारब्धमश्नुते ॥ २२० ॥

 पूर्ववत् प्राक् ज्ञानोदयाद्यद्वद्यथाऽहं भोक्तेति व्यवहरति । तथा ज्ञानानन्तरं । स्पष्टमन्यत् ॥ २२०॥

 चिदाभासे वस्तुतो भोक्तृत्वाभावज्ञाने साक्षिणो भोक्तृत्वारोपस्याप्यनवकाश इतीत्याह, यदेति ।

यदा स्वस्यापि भोक्तृत्वं मन्तुं जिह्वेत्ययं तदा ।
साक्षिण्यारोपयेदेतदिति कैव कथा वृथा ॥ २२१ ॥