पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३२१
कल्याणपीयूषव्याख्यासमेता

 सुलमा पदयोजना । स्वतः शरीरत्रयगतज्वरमन्तरा प्रतिबिम्बभूतचिदाभासे न स्वतो वरः। बिम्बेऽविद्यमानस्य धर्मस्य तदन्यूनातिरिक्तेनातिरिक्ते प्रतिबिम्बेऽसंभवात् ॥२२९॥

 कैमुतिकन्यायेन कूटस्थं तद्भावं दर्शयति, चिदिति ।

चिदाभासेऽप्यसंभाव्या ज्वरा साक्षिणि का कथा ।
एवमप्येकतां मेने चिदाभासोह्यविद्यया ॥ २३० ॥

 स्पष्टं पूर्वार्धम् । तर्ह्यंह सुखी अहं दुःखोत्याकारकानुतापानुभवस्य का गतिरित्याशंक्याह, एवमिति । एवमपि चिदाभासे ज्वरविरहेऽप्यविद्यया शरीरेण सहैकतां चिदाभासो मेने ॥ २३०॥

 अविद्याकृतैकताज्ञानमेव विवृणोति, साक्षीति ।

साक्षिसत्यत्वमध्यस्य स्वेनोपेते वपुस्त्रये ।
तत्सर्वं वास्तवं स्वस्य स्वरूपमिति मन्यते ॥ २३१ ॥

 चिदाभासः स्वेनोपेते वस्तुत्रये स्थूलादौ साक्षिसत्यत्वं कूटस्थस्य सत्यत्व मध्यस्य तत्सर्वं ज्वरपीडितं शरीरत्रयं स्वस्य वास्तवं स्वरूपमिति मन्यते ॥ २३१ ॥

 एवमेकताज्ञानफलमाह, एतस्मिन्निति ।

एतस्मिन् भ्रान्तिकालेऽयं शरीरेषु ज्वरत्वथ ।
स्वयमेव ज्वरामीति मन्यते हि कुटुंबिवत् ॥ २३२ ॥

 एतस्मिन् शरीरतज्वरत्रयसत्यत्वभ्रान्तिकाले शरीरेषु ज्वरत्सु सत्सु अयं चिदाभासः स्वस्मिन्नेवारोप्य अथ अनन्तरं स्वयमेव ज्वरामीति मन्यते हि । तत्रोदाहरणमाह, कुटुम्बिवदिति । “भार्यापुत्रविषु विकलेषु सकलेषु वाऽहमेव विकलः सकलो वेति”. यथा कुटुंबी मन्यते तथात्राप्यन्यधर्मान् स्वस्मिन्नध्यस्य क्लिश्नातीति भावः ॥ १३२॥

 दृष्टान्तं विवृणोति, पुत्रेति ।

41