पुत्रदारेषु तष्यत्सु तपामीति वृथा यथा । |
स्पष्टोऽर्थः ॥२३३ ॥
भ्रान्त्यपनये चिदाभासस्य ज्वरपीडाभाव इत्याह, विविच्येति ।
विविच्य भ्रान्तिमुज्झित्व स्वमप्यगणयन् सदा । |
चिदाभासो विविच्य कूटस्थेन शरीरत्रयेण च स्वात्मानं पृथक्कृत्य तत्सर्वं स्वस्वरूपमिति भ्रान्तिमुज्झित्वा त्यक्त्वा स्वमपि प्रतिबिम्बमात्रत्वादसत्यत्वेन स्वस्वरूपमगणयन्ननादरं कुर्वन् सदा साक्षिणं स्वस्य निजरूपं चिन्तयन्, कस्माद्धेतोः शरीरमनुसंज्वरेत् अनुसृत्य परितपेत् ? न संज्वरेदिति भावः ॥ २३४ ॥
भ्रान्तेरनुतापकारणत्वं तत्त्वज्ञानस्यानुतापाभावस्य कारणत्वं च प्रदर्शयितुं रज्जुसर्पभ्रान्तिं विवृणोति, अयथेति ।
अयथावस्तुसर्पादिज्ञानं हेतुः पलायने । |
रज्ज्वादावयथावस्तुसर्पादिज्ञानं पलायने हेतुः । रज्जुज्ञाने इयं रज्जुरिति यथार्थज्ञाने सति भ्रमवेलायां यत्कृतं पलायनादिकमहिधीध्वस्तौ सर्पबुद्धेर्विनाशे सत्यनुशोचति । धिड्ये भ्रान्याज्ञानेन वृथा प्रयासो मया कृत इति दुखाक्रान्तो भवति ॥ २३५॥
क्रमशो ज्ञानेन चिदाभासधीध्वंसकथनम् ।
ननु निवृत्तभ्रान्तिकस्य साक्षिचिन्तनं किमर्थम् ? भ्रान्तिनिवृत्यनन्तर प्राप्यफलान्तराभावादित्याशंक्य, भ्रान्तिनिवर्तकज्ञानाविच्छेदसिद्धये तत्स्वरू- पानुसन्धानमावश्यकम्, अन्यथा पुनः पुनर्भ्रान्त्युत्पादप्रसंगात् , एवं च पुनः भ्रान्त्यनुत्पत्तिरेवानुचिन्तनफलमिति विशदयति, मिथ्येति ।
मिथ्याभियोगदोषस्य प्रायश्चित्तप्रसिद्धये। |