पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३२३
कल्याणपीयूषव्याख्यासमेता

क्षमापयन्निवात्मानं साक्षिणं शरणं गतः ॥ २३६ ॥

 निर्दोषिणं प्रति मिथ्याभियोगदोषस्य प्रायश्चित्तप्रसिद्धये, “प्रायो नाम तपः प्रोक्तं चित्तं निश्चय उच्यते । तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम्", इति लक्षणस्य प्रायश्चित्तस्य प्रसिद्धये दोषपरिहारदार्ढ्यसंपत्तये क्षमापयन्निव क्षमार्पणं कुर्वन्नभियोगकर्तेव चिदाभासो मिथ्याभूतं साक्षिण्यारोपितदोषपरिहारार्थमात्मानं साक्षिणं शरणं गतः तदेकाश्रयोऽभूत् । नित्यशुद्धबुद्धस्वरूपे आत्मनि जगत आत्मनश्चाध्यासरूपाभियोगेनानादिरिह दुःखमयः संसारः प्रवृत्त इत्यवगत्य तदध्यासोपरमं विनात्मनो नित्यसुखरूपता न सिध्यति । साक्षिणं शरणतया शुद्धात्मानुसन्दधौ । तादृशसन्धानमेव प्रायश्चित्तफलकक्षमार्पणमित्युत्प्रेक्षते ॥ २३६ ॥

 ध्यानरूपानुचिन्तनमव सर्वथाध्यासारोपनिवारकमति लौकिकदोषापहा- रकप्रायश्चित्तदृष्टान्तेन विशदयति, आवृत्तेति ।

आवृत्तपापनुत्यर्थं स्नानाद्यावर्त्यते यथा ।
आवर्तयन्निव ध्यानं सदा साक्षिपरायणः ॥ २३७ ॥

 आवृत्तपापनुत्त्यर्थं असकृत्कृतपापापनोदनाय यथा स्नानादि प्रायश्चित्त- कर्माण्यावर्त्यते तथा संसारित्वारोपणाद्यनादिदोषस्यात्यन्तिकपरिहाराय ध्यानमावर्तयन्निव अविच्छेदेन कुर्वन्निव सदा साक्षिपरायणः साक्षी एव परं उत्तमं अयनं आश्रयो यस्य तथाविधो भवति । नैवं कल्पना चिदाभाससाक्षिणोर्भेदप्रदर्शनप्रयोजिका, किंतु मन्दबुद्ध्यारोहणमात्रविषयिकेति ग्राह्या ॥ २३७ ॥

 ज्ञानानन्तरं चिदाभासः स्वधर्मप्रख्यापने विलज्जित इत्यर्थे दृष्टान्तेन विवृणोति, उपस्थेति ।

उपस्थकुष्ठिनी वेश्या विलासेषु विलज्जते ।
जानतोऽग्रे तथाभासः स्वप्रख्यातौ विलज्जते ॥ २३८ ॥

 स्पष्ठं पूर्वार्धम् । वेशाय प्रवेशाय योग्या वेश्या । तथा आभासः जानतोऽग्रे स्वप्रख्यातौ स्वस्याहंकर्ता अहं भोक्तेत्याकारकस्वधर्माणां प्रख्यातौ