पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
[तृप्तिदीप
पञ्चदशी

प्रकटने विलज्जते ॥२३८॥

 शरीरत्रयविवेकज्ञानसंयुतस्य चिदाभासस्य न पुनस्तैस्सह तादात्म्यभ्रा- न्तिरिति दृष्टान्तपूर्वकमाह, गृहीत इति ।

गृहीतो ब्राह्मणो म्लेच्छैः प्रायश्चित्तं चरन् पुनः ।
म्लेच्छैः संकीर्यते नैव तथाभासः शरीरकैः ॥ २३९ ॥

 म्लेच्छै: “गोमांसखादको यस्तु विरुद्धं बहु भाषते । सर्वाचारविहीनश्च म्लेच्छ इत्यभिधीयते” इति बोधायनः । तथाभासः शरीरकैः कुत्सितार्थे कप्रत्ययः, त्रिभिः शरीरैः तादात्म्याध्यासं न करोतीत्यर्थः । स्पष्टमन्यत् । शरीरकैरिति कुत्सितार्थकेन तेषां सर्वथा हेयत्वं सूचितम् ॥ २३९ ॥

 साक्षिणोऽनुध्यानस्य नित्यसुखसंपादकतां दृष्टान्तमुखेन दर्शयति, यौव राज्येति ।

यौवराज्ये स्थितो राजपुत्रः साम्राज्यवाञ्छया ।
राजानुकारी भवति तथा साक्ष्यनुकार्ययम् ॥ २४० ॥

 यौवराज्ये युवैव राजा राजपुत्रः तस्य भावो यौवराज्यं तस्मिन् स्थितो । राजपुत्रः साम्राज्यवाञ्छया राजानुकारी भवति । तथाऽयं चिदाभासः साक्ष्यनुकारी तमनुकरोति। युवराजकृतराजानुकारो यावत् साम्राज्यसंपादकत्वेन यथा दुःखजुनको न भवति, एवं साक्षिणि चिदाभासाध्यासो यावदात्मरूपताप्राप्तिदुःखाजनकत्वेन हेयो न भवति । वस्तुतोऽयमप्यध्यासो हेय एव। अध्यासमात्रस्य मिथ्यात्ववदिति भावः ॥ २४० ॥

 राजानुकारिणो राजपुत्रस्य साम्राज्यप्राप्तिरूपं फलं लोकेऽवगम्यते, चिदाभासस्य साक्ष्यनुकरणफलं तु तद्रूपेणावस्थानमिति केनावगम्यत इत्याशंक्य तद्बोधकश्रुतिमुदाहरति, य इति ।

यो ब्रह्म वेद ब्रह्मैव भवत्येष इति श्रुतिम् ।
श्रुत्वा तदेकचित्तः सन् ब्रह्म वेत्ति न चेतरत् ॥२४१॥

 स्पष्टा पदयोजना। ब्रह्म वेद ब्रह्मैव भवती (मुम्. ३. २. ९) ति श्रुतिः ।