भवेत् उरग इवाचरति । उरग इव प्रतीयते । भ्रान्तिकार्थे कंपादौ विद्यमाने सति पुनः सर्पप्रतीतिर्भवतीति भावः ॥२४४ ॥
एवमेवावाप्तब्रह्मज्ञानानन्तरमपि प्रारब्धानुभवसमये विपरीतज्ञानं कदाचित् ज्ञायत इत्याह, एवमिति ।
एवमारब्धभोगोऽपि शनैः शाम्यति नो हठात् । |
स्टोऽर्थः । अहं ब्रह्मास्मिति ज्ञानस्य दाढर्याभाव एव तथा भासने कारणमित्यर्थः ॥२४५॥
नन्वेवं कादाचित्कानुभूतेन मत्योंहमित्यज्ञानेन तत्त्वज्ञानं बाध्येतेत्याशंकाम् परिहरति, नेति ।
नैतावतापराधेन तत्त्वज्ञानम् विनश्यति । |
एतावतापराधेन कादाचित्कानुभवरूपेण "ब्रह्माऽहमस्मी' ति तत्त्वज्ञानं न विनश्यति । इदं भ्रान्तिनिराकरणं तु जीवन्मुक्तिव्रतं न जीवन्मुक्तिनियमो न किंतु सभ्यक्ज्ञानेन भ्रान्तिज्ञाननिवृत्तिर्वस्तुस्थितिः खलु । वस्तुस्वभाव इत्यर्थः । व्रते नियमेनानुष्टेयम् आचरणकलापं,तद्भंगे व्रतभंगश्च । न तथा मर्त्येत्वबुध्यात्मक भ्रान्तिविषये । सम्यग्ज्ञानेन भ्रान्तिनिवृत्तिः । ज्ञानस्य दार्ढ्याभावे मर्त्यत्वबुध्युदयः पुनरात्मनो विवेचनेन तद्बुद्धेर्र्नाश इति यथार्थविषयः “श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि यं न विद्य" (कठ. १.२. ७) रित्यात्मज्ञानस्य दुर्विज्ञेयत्वा- त्तस्यासकृदभ्यासे नो हानिरिति भावः ॥ २४६॥
रज्जुसर्पादिस्थले भ्रमज्ञानस्य निवृत्यनन्तरमपि तत्कार्यं किंचित्कालमनुवर्तत इत्याह, दशमोऽपीति ।
दशमोऽपि शिरस्ताङ रुदन् बुद्ध्वा न रोदिति । |