पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३२७
कल्याणपीयूषव्याख्यासमेता

 स्पष्टा पदयोजना । दशमो नद्यां क्षालितः इति भ्रमज्ञानेन रुदत आप्त वाक्येन अहमेव दशम इति ज्ञाने सति भ्रमनिवृत्तिरेव न तु तन्निमित्तकशिरस्ताडन पीडा ॥ २४७ ॥

 ज्ञानोत्पत्तेरनन्तरमपि भ्रान्तिकार्यस्य कादाचित्कानुभवं दशमोऽहमिति स्थले विवृणोति, दशमेति ।

दशमामृतिलाभेन जातो हर्षों व्रणव्यथाम् ।
तिरोधत्ते मुक्तिलाभस्तथा प्रारब्धदुःखिताम् ॥ २४८ ॥

 दशमामृतिलाभेन दशमो न मृत इति ज्ञानेन जातो हर्षों व्रणव्यथां पूर्वं मरणज्ञानकाले जातेन दुःखेन कृतशिरस्ताडनादिसंजनितव्रणव्यथां यथा तिरोधत्ते अनुभवगोचरतां नयति तथा मुक्तिलाभो ब्रह्माहमस्मीति ज्ञानलाभः प्रारब्धदुःखितां तिरोधत्ते । जीवन्मुक्तिकाले सत्यापि दुःखे तस्य तिरोभावान्न ज्ञान्यनुभवगोचरतेति भावः ॥ २४८ ॥

 तत्त्वज्ञांनेन भ्रान्तिनिवृत्तिरिति वस्तुस्थितिर्नतु नियम इत्युक्तम् । तथा सति कदाचिदध्यासः प्रसज्येत । तस्मिम्श्च सति दुःखानुभवो दुर्निवार एव स्यादित्याशंक्याह, व्रतेति ।

व्रताभावाद्यथाऽध्यासस्तथा भूयो विविच्यताम् ।
रससेवी दिने भुङ्क्ते भूयो भूयो यथा तथा ।। २४९ ॥

 सुलभा पदयोजना । ब्रह्माहमस्मीतिज्ञानस्य दार्ढ्याभावात् अहं सुखो अहं दुःखीत्याकारकभ्रान्तेरुदये तदपाकरणाय दृढज्ञानोदयावधि देहेन्द्रियादीनात्मनो विविच्यतामित्यर्थः ॥ २४९ ॥

 अनिवार्यस्यारब्धस्यानुभव एव प्रतीकार इति दशमदृष्टान्तपूर्वकमाह, शमयतीति ।

शमयत्यौषधेनायं दशमः स्वं व्रणं यथा।
भोगेन शमयित्वैतत्प्रारब्धं मुच्यते तथा ।। २५० ।।