पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
[तृप्तिदीप
पञ्चदशी

 स्पष्टोऽर्थः । उपायान्तरेणानिवार्यस्य प्रारब्धस्योपभोगमात्रेण जीवन्मुक्तित्वं न बाध्यत इत्यर्थः ।। २५० ॥

तृप्तिस्वरूपविचारः ।

 त्रयस्त्रिंशश्लोकोक्तासु सप्तावस्थास्वेवं षष्ठमवस्थां निरूप्य सप्तमीनिरूपणं प्रतिजानीते, किमिति ।

किमिच्छन्नितिवाक्योक्तः शोकमोक्ष उदीरितः।
आभासस्य ह्यवस्थैषा षष्टी तृप्तिस्तु सप्तमी ॥ २५१ ॥

 एतावत्पर्यन्तं प्रचलितेन शास्त्रार्थेन “किमिच्छन्निति ” वाक्योक्तिः तद्वाक्यतात्पर्यभूतः शोकमोक्षः शोकस्य नाश उदीरितः । एषा शोकमोक्षावस्था त्रयस्त्रिंशश्लोकोक्तासु षष्ठी । सप्तमी चावस्था तृप्तिः ॥२५१॥

 ब्रह्मज्ञानजन्यायास्तृप्तेर्विषयतृप्तेर्वैलक्षण्यं दर्शयति, सेति ।

सांकुशा विषयैस्तृप्तिरियं तृप्तिर्निरंकुशा ।
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तृत्यति २५२॥

 शब्दादिभिर्विषयैर्जायमाना या तृप्तिः सा सांकुशा परिमितत्वेनाधिकतृप्ति- फलकविषयकामनया नश्वरत्वेन च प्रतिबद्धा । इयं ब्रह्मज्ञानजन्या तृप्तिर्निरंकुशा अप्रतिबद्धा ततोऽपि प्रियतरवस्त्वभावात्, अनश्वरत्वाच्च । तत्स्वरूथमाह, कृतमिति। यन्मयाकृत्यं कर्तव्यं तत्सर्वं कृतम् , अतः कृतकृत्योऽसि। यन्मया प्रापणीय- मप्रतिबद्धनिरतिशयानन्दरूपं तन्मया शोकमोक्षणे प्राप्तम् , प्रापणीयं न किंचिदष्यवशिष्यत इति ब्रह्मज्ञानी तृप्यति ॥२५२॥

 कृतकृत्यतां विवृणोति, ऐहिकेति ।

ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये ।
बहु कृत्ये पुराऽस्याभूत्तत्सर्वमधुना कृतम् ॥ २५३ ॥

 अस्य ज्ञानिनः पुरा प्राक् ज्ञानोत्पत्तेरैहिकामुष्मिकव्रातसिद्धये ऐहिकं दारादिलभ्यं सुख, आमुष्मिकं अमुत्र भवं स्वर्गादिसुखं, यजनोपासनादिलभ्यं