पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३२९
कल्याणपीयूषव्याख्यासमेता

तयोर्व्रातः समूहः तस्य सिद्ध्यै मुक्तेश्च सिद्धये श्रवणादिकम् च कृत्यं कर्तव्यम् बहुप्रकारकमभूत् अधुना तु तत्त्वज्ञानसमये संसारसुखेच्छालोपे ब्रह्मज्ञानसिद्धेश्च तत्सर्वं कृतं कृतप्रायमेवासीत् । ब्रह्मज्ञानानन्तरमनुष्ठेयं न किंचिद्विशिष्यत इति तात्पर्यम् ॥ २५३ ॥

 एवमवाप्तायाः कृतकृत्यतायाः फलमाह,तदिति ।

तदेतत्कृतकृत्यत्वं प्रतियोगिपुरस्सरम् ।
अनुसन्दधदेवायमेवं तुष्यति नित्यशः ॥ २५४ ॥

 अयं विद्वान् प्रतियोगिपुरस्सरं निर्वर्त्यस्यानुसन्धानपूर्वकं तदेतत्कृतकृत्य- त्वमनुसन्दधन्नित्यश एवं वक्ष्यमाणरीत्या तृष्यति ॥ २५४ ॥

 अनुसन्धानप्रकारं प्रपञ्चयति, दुःखिन इति ।

दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया ।
परमानन्दपूर्णाऽहं संसरामि किमिच्छया ॥ २५५ ॥

 अज्ञा अत एव दुःखिनः पुत्राद्यपेक्षया काममत्यन्तं संसारे संसरन्तु । परमानन्दपूर्णः कृतकृत्यतया प्राप्तप्राप्तव्यतया च निरतिशयानन्दसंपूर्णोऽहं किमिच्छया संसरामि संसारे प्रवर्तिष्ये। पुत्राद्यपेक्षाभावान्न मे संसारेच्छेत्यर्थः । अत्र पुत्राद्यपेक्षाभावोक्तेर्गौणात्मदृष्टिर्ज्ञानिनो निरस्यते ॥ २५५॥

ज्ञानिनः प्रवृत्तेः सर्वनियमाभावविचारः।

 तस्य यागोपासनादिकर्माचरणाभावोऽपीत्याह, अन्विति ।

अनुतिष्ठन्तु कर्माणि परलोकयियासवः।
सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथं ॥ २५६ ॥

 परलोकयियासवः स्वर्गलोकादिजिगमिषवो यागादिकर्माण्यनुतिष्ठन्तु । अहं तु सर्वलोकात्मकः सर्वलोकस्वरूपः । कस्माद्धेतोः मदतिरिक्तस्येष्यमाणस्य वस्तुनोऽभावेन तत्र प्रवृत्तेः कारणाभावात् कथं केन साधनेन किमनुतिष्ठामि ? उपमर्दितसर्वद्वैतज्ञानत्वात्कर्तृक्रियाकारकफलभेदाभावादित्यर्थः । अनेन जीवे आत्म-

42