पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
[तृप्तिदीप
पञ्चदशी

दृष्टिरपसारिता ॥२५६॥

 स्वार्धप्रवृत्त्यभावेऽपि परार्धप्रवृत्तिः स्यादित्याशंक्याह, व्याचक्षतामिति ।

व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा।
येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः ।। २५७ ॥

 येऽत्राधिकारिणो यान् गृहस्थानधिकृत्य कर्मकाण्डः प्रवर्तते तत्र तेऽधिकारिणः, इह परलोके चासक्ताः शास्त्राणि व्याचक्षतां व्याख्यायन्ताम् , वेदानध्यापयन्तु वा परेषां प्रयोजनाय । याजनाध्यापनादिविहितकृत्यं कुर्वन्तु । मे तु तत्राक्रियत्वतः फलाभियुक्तक्रियारहितत्वात् नाधिकारः। विदलितद्वैतभावस्य विदुषो मिथ्याभूतेन तेन शास्त्रेण न किमपि प्रयोजनमिति भावः ।२५७॥

 नन्वक्रियत्वमसिद्धम् , आहारादिक्रियादर्शनादित्यत आह, निद्रेति ।

निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च ।
द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् ।। २५८॥

 निजपोषणार्थके निद्राभिक्षे, बाह्यशुद्धिप्रयोजनके स्नानशौचे नेच्छामि न करोमि, तस्य पोषितव्यस्य देहादेरभावात् । तत्सर्वं कुर्वन् दृश्यत इत्याशंक्याह, द्रष्टार इति । वस्तुतो नाहं करोमि । किंतु द्रष्टार इतरे जना मयि तत्सर्वं कल्पयन्ति चेदन्यकल्पनान्मेऽवाप्तब्रह्मभावस्य किं स्यात् ? न कापि क्षतिरित्यर्थः। "न पुण्यं न पापं न सौख्यं न दुःखं न मंत्र न तीर्थं न वेदा न यज्ञाः। अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्दरूपः शिवोऽहं शिवोऽहं" इत्यभियुक्तोक्तोः । परदृष्ट्या लोकव्यवहारोऽस्तु नाम । स्वदृष्ट्या नास्त्येवेति तात्पर्यम् ॥ २५८ ॥

 अन्यकल्पनायां बाधाभावे दृष्टान्तमाह, गुञ्चेति ।

गुञ्जापुञ्जादि दह्येत नन्यारोपितवह्निना ।
नान्यारोपितसंसारधर्मानेवमहं भजे ।। २५९ ।।

 स्पष्टोऽर्थः ॥२५९ ॥