पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३३३
कल्याणपीयूषव्याख्यासमेता

नियममङ्गीकरोति, व्यवहार इति ।

व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा।
ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥ २६७ ॥

 अकर्तुरहं कर्तेत्यभिमानविधुरस्य अलेपस्य क्रियाफलेष्वपेतभोक्तृवाद्यभिमानस्य मम लौकिको निद्राहारादिः शास्त्रीयो जपादिः अन्यथा । प्रतिषिद्धरूपो वा व्यवहारः प्रवृत्तिनिवृत्तिरूपः यथारब्ध प्रारब्धानुसारं प्रवर्तताम् ॥ २६७ ॥

 निस्त्रैगुण्ये पथि विचरतो विधिनिषेधाभावेऽपि लोकानुग्रहकांक्षया शास्त्रीया प्रवृत्तिः स्यादित्याह, अथेति ।

अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया।
शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ॥ २६८ ।।

 लोकानुग्रहकांक्षया प्राणिलोकस्य सन्मार्गप्रवर्तनोपदेशकाम्यया। स्पष्टमन्यत् । “महाजनो येन गतः स पंथः” इत्युक्तत्वात् महतामाचारस्यानुकरणीयत्वेन लोके शिष्टाचारप्रवर्तकतया ज्ञानिनां शास्त्रचोदितप्रचार इति भावः ॥ २६८ ॥

 लोकानुग्रहहेतोः शास्त्रीयाचारमाचरन्नपि ज्ञानी न तेन लिप्यत इति द्वाभ्यामाह, देवेति ।

देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः ।
तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् ॥ २६९ ॥
विष्णुम् ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् ।
साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये ॥ २७० ॥

 देवार्चनस्ना शौचभिक्षादौ देवानां हरिहरादीनां पञ्चायतनस्य वा अर्चनम् सालग्रामादिप्रतीकेषु पूजनं स्नानं शैौचं भिक्षा चेत्यादिषु वपुरेव वर्तताम् । तद्वत् वाक् तारं प्रणवं जप, यद्वा आम्नायमस्तकं अध्ययनविधिना पठितस्य धारणार्थं पुनः पुनरभ्यासः आम्नायं, तद्विषयः आम्नायो वेदः तस्य मस्तकं शिर इव मुख्यत्वाच्छिरः स्थानमापन्नामुपनिषदं पठतु, धीर्विष्णुम् ध्यायतु । अथवा ह्यानन्दे