पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[तृप्तिदीप
पञ्चदशी

विलीयताम्, लयं गच्छतु । अत्रैवंरूपप्रवृत्तावहं साक्षी किंचिदपि न कुर्वे नाऽपि कारये । नाहं कर्ता न चाहं कारयितेति भावः ॥ २६९, २७० ॥

 एवं च ज्ञानकाण्डाश्रयिणो मम कर्मकाण्डाश्रयिणोऽन्यस्य च विभिन्न विषयत्वेन न विवाद इत्याह, एवमिति ।

एवं च कलहः कुत्र संभवेत्कर्मिणो मम ।
विभिन्नविषयत्वेन पूर्वापरसमुद्रवत् ॥ २७१ ॥

 एवं सति कृतकृत्यतामाप्नुवतो मम ज्ञानिनोऽभ्युदयेच्छाचोदितस्य कर्मिणः कर्मप्रधानस्य च पूर्वापरसमुद्रवत् विभिन्नविषयत्वेन कलहो । विवादः कुत्र ? नेत्यर्थः । उपमाने विभिन्नविषयत्वं विभिन्नदेशाश्रितत्वम् । उपमेये भिन्नप्रस्थानाश्रि- तत्वमिति बोध्यम् । निर्धूताखिलद्वतभावनिःश्रेयसावाप्तिफलकः सिद्धवस्तुसाक्षात्कारबोधको ज्ञानकाण्डः। कर्तृत्वादिकारकफलभेदसंकुलो द्वैतभावभूयिष्ठोऽभ्युदयावाप्तिफलकः कर्मकाण्ड इति स्वरूपतः फलतश्चात्यन्तविभिन्नार्थकप्रस्थानाश्रियिणोरावयोर्न विवादावकाश इति तात्पर्यम् ॥२७१॥

 विभिन्नविषयत्वं विशदयति, वपुरिति ।

वपुर्वाग्धीषु निर्बन्धः कर्मणो न तु साक्षिणि ।
ज्ञानिनः साक्ष्यलेपत्वे निर्बन्धो नेतरत्र हि ।। २७२ ॥

 स्पष्टं पूर्वार्धम् । निर्बन्धः विधिनिषेधरूपः। साक्ष्यलेपत्वे साक्षिणोऽलेपत्वेऽसंगत्वमात्रे एव ज्ञानिनो निर्बन्धः । इतरत्र वपुरादिषु न निर्बन्धः॥२७२॥

 एवं सति कर्मज्ञानिनोर्विवादो हास्यास्पद एवेत्याह, एवमिति ।

एवं चान्योन्यवृत्तान्तानभिज्ञौ बधिराविव ।
विवदेतां बुद्धिमन्तो हसन्त्येव विलोक्य तौ ॥ २७३ ॥

 स्पष्टोऽर्थः ॥२७३ ॥

विशदयति, यमिति ।