पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३३५
कल्याणपीयूषव्याख्यासमेता

यं कर्मी न विजानाति साक्षिणं तस्य तत्ववित् ।
ब्रह्मत्वं बुद्ध्यतां तत्र कर्मिणः किं विहीयते ।। २७४॥

 य साक्षिण प्रत्यगात्मानं कर्मी न विजानाति तस्य प्रत्यगात्मनो ब्रह्मत्वं प्रत्यगात्मपरब्रह्मणोरभेदं तत्त्ववित् ज्ञानी बुध्यतां । तत्र तथा सति कर्मिणः किं विहीयते ॥२७४ ॥

 ज्ञानस्य भिन्नविषयत्वान्न तयोर्विवादावकाश इत्याह, देहेति ।

देहवाग्बुद्धयस्त्वक्ता ज्ञानिनाऽनृतबुद्धितः ।।
कर्मी प्रवर्तयत्वाभिर्ज्ञानिनो हीयतेऽत्र किम् ।। २७५ ॥

 स्पष्टा पदयोजना । मिथ्यात्वबुद्ध्या यद्देहादि त्यज्यते ज्ञानिना तेन कर्मी कर्मसु प्रवर्तत इति न ज्ञानिनो हानिरिति भावः॥ २७५ ॥

 अस्मदभिमता प्रवृत्तिः फलवत्वात्प्रयोजनाभावधिया ज्ञानिनोऽनङ्गीकारोऽयुक्त इति कलहायते कर्मीति कलहहेतुरस्तीति कुतः परिहास इति शंकते, प्रवृत्तिरिति ।

प्रवृत्तिर्नोपयुक्ता चेन्निवृत्तिः क्वोपयुज्यते ।
बोधहेतुर्निवृत्तिश्चेद्बुभुत्सायां तथेतरा ॥ २७६ ॥

 ज्ञानिनः प्रवृत्तिः कर्मनिष्ठा नोपयुक्ता प्रयोजनकारिणी न भवतीत्युच्यते चेन्निवृत्तेरपि निष्फलत्वस्य ज्ञानिनाङ्गीकृतत्वात् तद्वत्प्रवृतिरप्यङ्गीक्रियतामिति प्रतिबंद्या समाधत्ते, निवृत्तिः कोपयुज्यते ? तस्या अपि फलाभावात् । तदङ्गीकारवत् प्रवृत्तिरप्यङ्गीकार्येति तात्पर्यम् । निवृत्तेर्निष्फलत्वमसिद्धमिति तदङ्गीकारः युक्त एवेति शंकते, निवृत्तिर्बोधहेतुः बोधरूपं फलं निवृत्तेरिति निवृत्तिरङ्गीक्रियत इति शंकिंतुराशयः । तादृशं फलं प्रवृत्तेरप्यस्तीत्यङ्गीकारबीजमुभयत्र समानमिति परिहरति, तथेतरा प्रवृत्तिर्बुभुत्सायां हेतुः । एवं चोभयोरपि सफलत्वादुभे अप्यङ्गीकार्ये। एवं च न तत्र कलहो युक्तः ॥ २७६ ॥

 फलतदभावौ न बुभुत्स्वपेक्षयोच्येते । अपि तु बुद्धापक्षयेत्याशंकते,