पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३३६
[तृप्तिदीप
पञ्चदशी

बुद्ध इति।

बुद्धश्चेन्न बुभुत्सेत नाप्यसौ बुध्यते पुनः।
अबाधादनुवर्तेत बोधो नत्वन्यसाधनम् ।। २७७ ॥

 बुद्धो ज्ञानी न बुभुत्सेत बोद्धुम् नेच्छति । बुद्धस्य प्रवृत्तेर्बुभुत्सारूपफल- स्याभावात्तत्प्रवृत्तेर्निष्फलत्वम्। निवृत्तिस्तु बोधरूपफलसंपादकतया सफलेति शाकतुराशयः बुद्धस्यापि पुनर्बुभुत्साभावात्तत्कारणीभूता निवृत्तिरपि निरर्थिकैवेति शम्कते नेति । असौ ज्ञानी पुनर्नबुध्यते बोद्धुम् नेच्छति । सकृज्जातस्य बोधस्य द्रढीकरणाय निवृत्तिरावश्यकीत्याशंक्य तत्र बाधकाभावमेवेष्टव्यं नत्वन्यत् साधनमित्याह, अबाधादिति । सकृत्संपादितो बोधोऽबाधात् । “प्रमाणोत्पादिता विद्या प्रबलं प्रमाणं विना न नश्यतीति" हेतोः वेदान्तात्प्रबलप्रमाणात्मकप्रतिबन्धका- भावादनुवर्तेत स्थिरीभवेत् । अनुवृत्तौ अन्यसाधनम् निवृत्तिरूपं नापेक्षितम् ॥२७७॥

 अनुवृत्तावितरस्याबाधत्वेऽप्यविद्यया तत्कार्येण च बाधः स्यादित्याशंक्याह, नेति ।

नाविद्या नापि तत्कार्यं बोधं बाधितुमर्हति ।
पुरैव तत्त्वबोधेन बाधिते ते उभे यतः ॥ २७८ ॥

 स्पष्टं पूर्वार्धम् । अविद्यातत्कार्ययोः प्रत्येकं बाधकत्वं मिलित्वापि बाधकत्वं नेति बोधयितुं नञो द्विप्रयोगः । तत्र कारणमाह, पुरेति यतस्ते उभेऽविद्यातत्कार्ये पुरा तत्त्वबोधेन बाधिते नष्टे । बाधितो बाधको भवितुं नार्हतीति भावः ॥२७८॥

 नन्वविद्यायास्तत्कार्यस्य च बाधे सत्यपि कार्यस्य देहादेः प्रत्यक्षेण प्रतीयमानत्वात्प्रतीतिसिद्धेन कार्येण बोधो बाध्येतेत्याशंकां परिहरति, बाधितमिति ।

बाधितं दृश्यतामक्षैस्तेन बाधो न शक्यते ।
जीवन्नाखुर्न मार्जारं हन्ति हन्यात्कथं मृतः ॥ २७९ ॥

 बाधितं उपादानकारणस्य मिथ्यात्वनिश्चियरूपबाधे सति तदुपादानकत्वेन मिथ्यात्वेन निश्चितं जगत् आक्षैरिन्द्रियैः तदुपलक्षितप्रमाणान्तरैश्च दृश्यतां प्रती-