पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३३७
कल्याणपीयूषव्याख्यासमेता

यतां नाम । तेन प्रतीतिमात्रशरीरकेण स्वतोऽसत्येन जगता बोधस्य बाधो न शक्यते । उक्तमर्थं दृष्टान्तेन विशदयति, जीवन्निति । यथा लोके आखुर्मूषकः जीवन मार्जारं न हन्ति । मृतो मरणानन्तरं तं कथं हन्यात् ? स्वसत्ताकालेऽपि मार्जालं हन्तुमसमर्थो मूषकः स्वरूपतो नष्टो भूत्वा कथं तं हन्यात् ? तद्वत्प्रकृते जगतस्सत्यत्वेन ज्ञानदशायामपि शुद्धचित्तस्य श्रवणादिना जायमानं बोधं प्रतिहन्तुमक्षमं जगन्मिथ्यात्वेन ज्ञानावस्थायां कथं बोधं बाधितुमिष्टे इति तात्पर्यम्॥२७९॥

 इदमेवार्थं प्रमाणान्तरेण प्रपञ्चयति, अपीति ।

अपि पाशुपतास्त्रेण विद्धश्चेन्न ममार यः ।
निष्फलेषुविनुन्नांगो नञ्क्ष्यतीत्यत्र का प्रमा॥ २८० ॥

 पाशुपतास्त्रेणापि पशुपतिदेवताकेनास्त्रेणामोघेनापि विद्धश्चेदाहतोऽपि यो न ममार स निष्फलेषुविनुन्नाङ्गः न विद्यते फलं पुंखं शल्यं यस्य तेन धाराशून्यकुंठितेनेषुणा विदारितशरीरः नञ्क्ष्यतीति नाशमुपैतीत्यत्रास्मिन् स्थले का प्रमा किं प्रमाणं विश्वासयोग्यमित्यर्थः ॥ २८०॥

 दृर्ष्टान्तार्थम् दार्ष्टान्तिके समन्वेति, आदाविति ।

आदावविद्यया चित्रै: स्वकार्यैर्जृम्भमाणया ।
युद्ध्वा बोधोऽजयत्सोऽद्य सुदृढो बाध्यतां कथम् ॥ २८१ ॥

 आदौ विद्योदयात् प्राक् चित्रैः स्वकार्यै: प्रमातृत्वभोक्तृत्वादिविविधरूपैर्जृम्भमाणया विवर्धमानयाऽविद्यया बोधो युद्ध्वाऽजयत् । स एव बोधोऽद्याभ्यासपाटवेन सुदृढो निस्सपत्रं स्थितो मायाकार्येण देहाद्यध्यासेन कथंः बाध्यताम् ॥ २८१ ॥

 एतदर्थमेव रूपकेण प्रपञ्चयति, तिष्ठन्त्विति ।

तिष्टन्त्वज्ञानतत्कार्यशवा बोधेन मारिताः ।
न भीतिर्बोघसम्राजः कीर्तिः प्रत्युत तस्य तैः ॥ २८२ ॥

 बोधेन युद्धे मारिता अज्ञानतत्कार्यशवा तिष्ठन्तु । अनेनाविद्यायास्तदा

43