म्वकार्यजननासामर्थ्यं सूचितम् । बोधसम्राजो बोध एव सम्राट् तस्य ततो न भीतिः भयकारणम् । प्रत्युत तैः शवैः बोधसम्राजः कीर्तिरेव भवति । यथा लोके शत्रवो युद्धेन स्वाभियोगसामर्थ्यशून्याः कृतास्तादृशानां सत्वेऽपि न राज्ञो भीतिः । प्रत्युत मृताः किंतु जेतुः सर्वथा यशसे एवं कल्पयन्ति ॥२८२॥
एवमुक्तरूपकाशयं निर्वहति, य इति ।
य एवमतिशूरेण बोधेन वियुज्यते । |
यो ज्ञान्येवं । मायातत्कार्यनिवहानाहवे आहतवताऽतिशूरेण बोधेन न वियुज्यंते न पृथग्भवति । तादृशोऽस्य जनस्य देहादिगतया प्रवृत्त्या वा निवृत्त्या वा किं फलम् ? अनवरतावहितबोधैकशूरपरिरक्षिते महासाम्राज्ये पट्टाभिषिक्तस्यास्य ज्ञानिसार्वभौमस्य न कापि प्रवृत्तिनिवृत्त्यादिबहिरन्तःपरिपंथिभीतिरिति भावः।।२८३॥
तर्हि ज्ञानिवदज्ञानिनोऽपि प्रवृत्तिरनुपयोगिनी स्यादित्यत आह, प्रवृत्तेति ।
प्रवृत्तावाग्रहो न्याय्यो बोधहीनस्य सर्वथा । |
बोधहीनस्य ज्ञानविहीनस्य सर्वथा प्रवृत्तौ कर्मनिष्ठायामाग्रहोऽभिनिवेशो न्याय्यः न्यायादनपेतो भवति । यतो नृभिः कर्मफलभूताय स्वर्गाय ज्ञानफलभूतायापवर्गाय मोक्षाय वा यतितव्यं प्रयत्नः कार्यः । फलकांक्षिभिः सर्वैरपि तत्साधनमवश्यमाश्रयणीयं भवति । अस्तु नाम तस्मिन् फले तारतम्यम् । यद्युत्तम- फलसंपादनशक्तिस्तदा तदर्थं प्रयतितव्यम् । यदि तादृशे शक्तिर्न स्यात्ततो निकृष्ट फलाय प्रयतितव्यम् । ये तु तदाऽप्रयतमानास्तूष्णीम् भवन्ति तदा मनुष्यप्रयोजना संपादकतया जडप्राया एव भवेयुरिति तात्पर्यम् ॥२८४॥
लोकानुग्रहधियाऽज्ञानिनां शिक्षणाय तन्मध्ये तिष्ठन् ज्ञान्यपि प्रवृत्तिमनुवर्तते स्वस्य तु कृतार्थत्वान्न किमपि कर्तव्यमित्याह, विद्वानिति ।
विद्वांश्चेत्तादृशां मध्ये तिष्ठेत्तदनुरोधतः । |