पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३३९
कल्याणपीयूषव्याख्यासमेता

कायेन मनसा वाचा करोत्येवाखिलाः क्रियाः ॥ २८५॥

 विद्वान् तादृशां स्वर्गादिफलकामनया प्रवर्तमानानां कर्मिणां मध्ये तिष्ठेच्चेत्तेषामयमेव संतरणोपाय इति ज्ञापनाय अखिलाः शास्त्रमात्रविहिताः क्रियाः स्वस्ववर्णाश्रमाद्युचिताः कायेन मनसा वाचा करोत्येव । तदनुरोधतः तान् कर्मिणोऽनुसृत्य करोतीति लडन्तस्यान्वर्धता । अयमेवार्थः"लोकसंग्रहमेवापि संपश्यन् कर्तुमर्हसी” ति भगवताप्युपदिष्टम् । (गी. ३-२०) ॥२८५॥

 बुभुत्सूनां मध्ये वर्तमानस्य तस्य स्थितिमाह, एष इति ।

एष मध्ये बुभुत्सूनां यदा तिष्ठेत्तदा पुनः ।
बोधायैषां क्रियाः सर्वा दूषयंस्त्यजतु स्वयम् ॥ २८६ ॥

 एष ज्ञानी बुभुत्सूनां कर्मणा शुद्धचित्ततया संजातबोधेच्छानां मध्ये यदा तिष्ठेत्तदा पुनः एषां बोधाय तत्वज्ञानोत्पादनाय सर्वाः क्रियाः आत्यन्तिकफलराहित्येन दूषयन् ताः स्वयं त्यजतु । न तावता कापि हानिरिति भावः ।। २८६ ॥

 बुद्धस्यैवंरूपाचरणे उपपत्तिमाह, अविद्वदिति ।

अविद्वदनुसारेण वृत्तिर्बुद्धस्य युज्यते ।
स्तनंधयानुसारेण वर्तते तत्पिता यतः ॥ २८७ ॥

 सुगमा पदयोजना । स्तनं धयति पिबतीति धेट् पाने इति धातोः स्वशि मुमागमे स्तनंधयः । तुष्यतु दुर्जन इति मूर्खं स्वमार्गानयनायादौ तन्मार्गमेवानुसर- त्युपदेशिक इति तात्पर्यम् । ‘मय्येव सकलं जातमिति तस्य पुत्रादयमुपयन्ति सुहृद” इति श्रुतत्वाज्जीवन्मुक्तस्य जगत्पितृत्वस्मारकोऽयं दृष्टान्तः ॥२८७ ॥

 अनुसरणप्रकारमाह, अधीति ।

अधिक्षिप्तस्ताडितो वा बालेन स्वपिता तदा ।
न क्लिश्नाति न कुप्येत बालं प्रत्युत लालयेत् ॥ २८८ ।।

 स्पष्टोऽर्थः । न क्लिश्नाति न क्लेशमाप्नोति ॥२८८॥