पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[तृप्तिदीप
पञ्चदशी

 दृष्टान्तार्थ दार्ष्टान्तिके योजयति, निन्दित इति ।

निन्दितः स्तूयमानो वा विद्वानज्ञैर्नम् निन्दति ।
न स्तौति किंतु तेषां स्याद्यथा बोधस्तथाचरेत् ॥२८९॥

 स्पष्टं पूर्वार्धम् । न स्तौति न निन्दति, तस्य निन्दास्तुत्योः समबुद्धित्वात्, किंतु तेषां यथा बोधो ज्ञानोदयः स्यात्तथा तन्मध्ये तिष्ठन् चरेत् ॥ २८९ ॥

 अज्ञानिजनप्रबोधैकांभिनिवेशः खलु लोककल्याणहेतोः प्रवृत्तानां तत्त्व विदामाचार इत्याह, येनेति ।

येनायं नटनेनात्र बुध्यते कार्यमेव तत् ।
अज्ञप्रबोधान्नैवान्यत्कार्यमस्त्यत्र तद्विदः ॥ २९० ॥

 अयमज्ञान्यत्र विदुषो येन नटनेनाचरणेन बुध्यते तत्वमवगच्छति तत् विदुषा कार्यमेव आचरितव्यमेव । अत्र नटनशब्देन विद्वत्क्रियायाः स्वस्मिन्नारोपितत्वं ध्वन्यते । तत्रोपपत्तिमाह, अज्ञेति । तद्विदा ज्ञानिनोऽज्ञप्रबोधनात् ज्ञानोन्मीलनादन्यत्कार्यं नास्त्येव । यथा नटः परेषां रसास्वादजननाय स्वस्मिन्नविद्यमानमपि रत्यादिकं तदभिव्यंजकानि विभावादोन्यभिनयति तद्वदेवायं ज्ञानी परेषां परानन्दास्वादनायाभिनयतीति तात्पर्यम् ॥२९० ॥

जीवन्मुक्तस्य निरतिशयानन्दवर्णनम् ।

 प्रारीप्सितप्रकरणमुपसंहरन् तद्विषयभूताया जीवन्मुक्तस्यान्तस्तृप्तेः प्रकारं दर्शयति, कृतेति ।

कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः ।
तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम् ।। २९१॥

 अज्ञप्रबोधैकफलकप्रवृत्तिनटननिपुणोऽसौ विद्वान् कृतकृत्यतया तृप्तः पुनः प्राप्तप्राप्यतया च तृप्यन् स्वमनसा निरन्तरं एवं वक्ष्यमाणप्रकारेण मन्यते॥२९१॥

 मननप्रकारं चतुर्भिराह, धन्य इति ।

धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि ।