पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[तृप्तिदीप
पञ्चदशी

 मे तृप्तेः एवमज्ञानावृत्यपगमपूर्वकं बहुवाराभ्यस्तापरोक्षधीकृतशोकमोक्षसाक्षात्कारजन्या या तृप्तिः तस्याः लोके उपमा साम्यम् का भवेत् ? "निरूपमा मे तृप्ति"रिति हृर्षोत्पुलकितगात्रस्य निर्भरमानन्दभरं तारस्वरेणाविष्करोति, “धन्योऽह" मिति चुतुर्वारमुद्घोषेण । तावताविष्करणेनसंतृप्तिराविष्करणस्य नैरन्तर्यस्फोरणाय च पुनः पुनर्धन्य इत्युक्तिः ॥ २९५॥

 एवं फलप्राप्त्या तृप्तिमाविष्कृत्य परंपरया तत्साधनीभूतकर्मणो महोपकारकत्वमाश्चर्यप्रदर्शनेन स्फोरयति, अहो इति ।

अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् ।
अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् ॥ २९६ ॥

 अहो इत्याश्चर्यद्योतकमव्ययम् । अस्माकं पुण्यमहो निरुपमित्याश्चर्यम् । तत् पुण्यं दृढं शास्त्रीयकर्मणोऽव्यभिचारेण फलजनकमित्यर्थः। फलितं तृप्तिस्वरूपेण फलवद्बभूव । अस्य पुण्यस्य संपत्तेः संपादनात् वयं साक्षाकृताद्वैतब्रह्मस्वरूपा अहो आश्चर्यभूताः । ब्रह्मसाक्षात्कारानुकूलकर्मसम्पादनमप्याश्चर्यकरमित्यर्थः। अहो वयमित्यादरातिशयाद्विरुक्तिः । वयं वयं साक्षाकृतात्मस्वरूपा अभवमित्यहो आश्चर्यभूताः यद्वा साक्षात्कृतात्मस्वरूपत्वात् वयं वयं निरुपमाः मादृशा नान्ये विद्यन्त इत्यहो । एतेन भवन्तोऽपि परमपुरुषार्थानुकुलतया कर्म संपाद्य वयमिव कृतकृत्या भवन्त्विति कर्मिणामुपदेशः क्रियते ॥ २९६ ॥

 एवं ब्रह्मसाक्षात्कारानुकूलतया शास्रादीनामप्यत्यन्तावश्यकतां स्वाश्चर्यद्योतनेन तत्तदधिकारिणमुपदिशति, अहो इति ।

अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः।
अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् ॥ २९७ ॥

 स्पष्टोऽर्थः । समित्पाणिः सद्गुरुमुपेत्य तत्तः श्रवणं कृत्वा श्रुतस्य मननादेरापादितज्ञानसंपत्तेर्जीवन्नेव मुच्यते । तस्य चानिर्वचनीयं विलक्षणं सुखमहो महदाश्चर्यमित्यर्थः । तथा च । "आश्चर्यवत्पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव- चान्यः । आश्चर्यवच्चैनमन्यः शृणोति” (गी.२- २१) त्यादि स्मृतम् ॥ २९७ ॥