पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥७॥ ]
३४३
कल्याणपीयूषव्याख्यासमेता

 फलश्रुतिकथनपूर्वकं प्रतिज्ञातं प्रकरणमुपसंहरति, तृप्तीति ।

तृप्तिदीपमिमं नित्यं येऽनुसन्दधते बुधाः ।
ब्रह्मानन्दे निमज्जन्तस्ते तृप्यन्ति निरन्तरम् ॥ २९८ ॥

 य बुधास्तृप्तिदीपं तृप्तेर्दीपायितत्वात्तन्नामकमिमं प्रकरणं नित्यमनिशं अनुसन्दधते बुद्धावनुसन्धानं कुर्वन्ति ते ब्रह्मानन्दे निमज्जन्तो निरन्तरं तृप्यन्ति। इतरकाले व्यासक्तचित्तत्वेऽप्येतदनुसन्धानकाले ब्रह्मानन्दावाप्तिरिति तात्पर्यम्॥२९८॥

इति

श्रीमत्परमहंसपरिव्राजकाचार्यश्रृंगेरीश्रीविरूपाक्षश्रीविद्याशङ्करपदमावेशप्रकाशित

जगद्गुरु श्रीकल्याणानन्दभारतीमान्ताचार्यात्यन्तप्रियान्तवासिनानि

गोत्रसमुद्भतेन लिङ्गन सोमयाजिना विरचितेयं तृप्तिदीप

प्रकरणस्य कल्याणपीयूषव्याख्या समाप्ता ॥

इति तृप्तिदीपप्रकरणम्।