पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ

कल्याणपीयूषव्याख्यासमेता

पंचदशी

कूटस्थदीप प्रकरणम् ॥ ८ ॥

 ब्रह्मसाक्षात्कारोपायं चित्रदीपे प्रदर्श्य, उपाये प्ररोचनार्थम् तृप्तिदीपमुक्तवान् । अयं च साक्षात्कारो न प्रयत्नसाध्यः किंत्वनुदिनमनुभूयमान एव । परंत्वनुभूतेऽर्थे पूर्वोक्तविवेचनारीत्या विवेके प्रतिदिनमनुभूयमानस्य जीवस्यैव कूटस्थत्वमिति तदेव ब्रह्मरूपमिति च बोधयितुमिदं प्रकरणमारभ्यते, खादित्येति ।

देहस्य कूटस्थचिदाभासोभयभास्यत्वनिरूपणम् ।

खादित्यदीपिते कुड्ये दर्पणादित्यदीप्तिवत् ।
कूटस्थभासितो देहो धीस्थजीवेन भास्यते ॥ १॥

 यथा खादित्यदीपिते आकाशे य आदित्यस्तेन प्रकाशितं यत्कुड्यं तस्मिन् दर्पणादित्यदीप्तिवद्दर्पणे प्रतिबिंबितो य आदित्यस्तस्य दोप्तिवत्कूटस्थभासितः प्रत्यगात्मना प्रकाशितो देहो धीस्थजीवेन घियि बुद्धौ तिष्ठता जीवेन बुद्धौ चिदाभासाकारेण प्रतिबिंबितेन कूटस्थेनैव भास्यते ॥१॥

 दृष्टान्ते कुड्ये खादित्यदर्पणादित्यदीप्तिद्वयप्रकाशनप्रकारं विवृणोति, अनेकेति ।

अनेकर्पणादित्यदीप्तीनां बहुसन्धिषु ।
इतरा व्यज्यते तासामभावेऽपि प्रकाशते ॥ २ ॥

 अनेकदर्पणादित्यदीप्तीनां बिंबाकारेण वर्तमानानां प्रकाशानां बहुसंधिष्व न्तरालप्रदेशेष्वितरा सामान्या सूर्यकान्तिर्युज्यते । तासां प्रतिबिंबदीप्तीनां कुट्ये- ऽभावेऽपि बिंबग्राहकदर्पणाद्यभावादितरा सूर्यकान्तिः प्रकाशते । विशेषप्रतिबिंबप्रभाभावेऽपि सामान्या सूर्यप्रभा भासत इति भावः ॥२॥