पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४६
[कूटस्थदीप
पञ्चदशी

चिदाभासरूपं नापि ब्रह्मात्मकम् । चिदाभासस्य भासकत्वात् ब्रह्मणः पूर्वसिद्धत्वात् । ज्ञातो घट इति ज्ञानं ब्रह्मभास्यम् । न चैतच्चिदाभासभास्यमिति वक्तुं शक्यम् । तस्य ‘अयं घट' इति ज्ञानजननेनैव चरितार्थत्वात् । अयं घट इति ज्ञानस्य अनियत्या सर्वसाक्षिणा ब्रह्मणाऽनिर्वाहाच्चिदाभासभास्यत्वभभ्युपगतम् । तावन्मात्रेण चरितार्थश्चिदाभासः नान्यद् ज्ञातो घट इत्यादि ज्ञानं जनयितुं शक्नोति । साक्षिणस्तु सर्वकारणत्वेन तदुपपद्यते । घटाकाराकारितधीवृत्तिः, घटज्ञानं, ज्ञान विषयो घटश्चेत्येतत्त्रितयं साक्षिण भास्यते । घटमात्रं चिदाभासभास्यम् । एवं च घटादेर्विषयस्य ज्ञातो घट इत्यादौ समुदायान्तर्गतत्वेन चिद्भास्यत्वं, अयं घट इत्यादावाभासभास्यत्वमित्युभयभास्यत्वं सिद्धमिति दिक् ॥४॥

 ननु ज्ञातो घट इत्यत्र घटानिष्टज्ञाततावभासकब्रह्मचैतन्यस्यैव घटावभास- कत्वेनोपपत्तौ बुद्धिर्निरर्थिकास्यादित्याशंक्य तत्सार्थक्यं दर्शयति, अज्ञातत्वेनेति।

अज्ञातत्वेन ज्ञातोऽयं घटो बुद्ध्युदयात्पुरा ।
ब्रह्मणैवोपरिष्टात्तु ज्ञातत्वेनेत्यसौ भिदा ॥ ५॥

 ‘अयं घट’ इति बुद्ध्युदयात्पुरा “न घटो मया ज्ञात" इति बुद्धेस्सत्त्वात् घटोऽज्ञातत्वेन रूपेण ब्रह्मणा ब्रह्मचैतन्येन ज्ञातः । ‘अयं घट’ इति बुद्धेरुपरिष्टा- दुत्पत्यनन्तरं ज्ञातत्वेन ‘ज्ञातो घट' इति ज्ञाततया घटो ब्रह्मणैव भासते । ‘अज्ञातो घट' इति स्थले घटनिष्ठाज्ञातता भासते । ‘ज्ञातो घट’ इति स्थले । तन्निष्ठज्ञातता भासते । ज्ञातत्वाज्ञातत्वयोरुभयोरपि भाने ब्रह्मचैतन्यमेव कारणम् । तदज्ञातत्वं तु ‘अयं घट’ इति बुद्धेः पूर्ववर्ति । ज्ञातत्वं तु तदनन्तरवर्तीयसौ भेदः ज्ञातत्वाज्ञातत्वयोः परस्परविरुद्धयोरेकस्मिन् धर्मिणि युगपदवस्थानासंभवात्क्रमेणोत्पन्नयोस्तयोः क्रमेण भानमित्यवश्यमभ्युपेयम् । तत्र ज्ञातताया उत्पादकं ज्ञानम् । अज्ञाततायाश्चाज्ञानम् । तथा च ज्ञाततोत्पादकं ज्ञानं बुद्ध्यधीनमिति तदभावे ज्ञानस्यैवाभावेन ज्ञातताया अनुदयात्तदवभासनं संभवतीति तत्सार्थक्यमिति भावः ॥ ५ ॥

 एकस्यैव घटस्य, ज्ञातत्वाज्ञातत्वे इति द्वैरूप्योपपादनाय तन्निमित्तयोः ज्ञानाज्ञानयोः स्वरूपं विवृणोति, चिदाभासेति ॥