चिदाभासान्तधीवृत्तिर्ज्ञानं लोहान्तकुन्तवत् । |
चिदाभासान्तधीवृत्तिश्चिदाभाससहितबुद्धिवृत्तिः ज्ञानं भवति । तत्र दृष्टान्तमाह, लोहान्तकुन्तवदिति । यस्यान्तभागे विनिवेशितो लोहोऽय:खण्डः दण्डाकारेण स्थित आयुधविशेषः कुन्तशब्देनोच्यते । कुन्तस्य लोहान्तत्वाभावे छेदनाशक्तत्वमिव धीवृत्तेश्चिदाभासान्तत्वाभावे विषयावभासनाशक्तत्वमिति भावः । अज्ञानं विवृणोति, जाड्यमिति। जाड्यं स्फूर्तिराहित्यमज्ञानमित्युच्यते । एताभ्यां ज्ञानाज्ञानाभ्यां व्याप्तः क्रमेण संबद्धः कुंभः द्विधा ज्ञात इत्यज्ञात इति च पर्यायेणोच्यते। ज्ञानव्याप्तो घटो ज्ञात इति, अज्ञानव्याप्तो घटोऽज्ञात इति चोच्यते । उभयत्र घट एव विषय इति भावः ॥ ६ ॥
नन्वज्ञातस्य घटस्याज्ञानव्याप्तत्वादज्ञाततायाः ब्रह्मचैतन्यभास्यत्वं युक्तमेव स्यात् । ज्ञातस्य कुंभस्य चिदाभासावभास्यत्वात्कुतो ज्ञातताया ब्रह्मचैतन्यमुच्यत इत्याशंक्याह, अज्ञात इति ॥
अज्ञातो ब्रह्मणा भास्यो ज्ञातः कुंभस्तथा न किम् । |
यथा अज्ञातो घट इत्यत्र अज्ञातताविशिष्टो घटो ब्रह्मणा भास्यः । तथा ज्ञातो घट इत्यत्र ज्ञातताविशिष्टः कुंभो ब्राह्मणा भास्यो न भवति किम् ? भवत्येवेति भावः । ननु तत्र ज्ञानमन्तरा ज्ञातताया अनुदयेन तस्याः ब्रह्मभास्यत्वासंभवा- त्तदुत्पादकज्ञानार्थमावश्यकेन चिदाभासेनैव ज्ञातताविशिष्टो घटो भास्यताम्, का तद्भाने कूटस्थापेक्षेत्यत आह, ज्ञातत्वेति । ज्ञातत्वजननेनैव अयं घट इति ज्ञानोत्पादनेनैव चिदाभासपरिक्षयः चिदाभासस्योपशान्तिः । अज्ञातकुंभवत् ज्ञातकुंभस्यापि ब्रह्मणैवावभाससंभवात्तद्भानपर्यन्तं परिक्षीणस्य चिदाभासस्य व्यापारकल्पनं गौरवपराहतमिति भावः। बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् । “तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरे"दिति (७-९१) पूर्वमुक्तम् ॥७॥
नन्वयं घट इति ज्ञानमपि बुद्धिरेवजनयतु, किं चिदाभासेनेत्याशंक्य