पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
[कूटस्थदीप
पञ्चदशी

चिदाभाससाहित्यमन्तरेण न केवलबुद्धेर्जडात्मिकायास्तत्सामर्थ्यमित्याह, आभासेति ।

आभासहीनया बुद्ध्या ज्ञातत्वं नैव जन्यते ।
तादृग्बुद्धेर्विशेषः को मृदादेः स्याद्विकारिणः ॥ ८ ॥

 आभासहीनया चिदाभासविवर्जितया केवलबुद्ध्या घटस्य ज्ञातत्वं ‘ज्ञातो घट' इति व्यवहारहेतुभूतं ज्ञानं नैव जन्यते । तत्र कारणमाह, तादृगिति। तादृग्बुद्धेराभासहीनाया बुद्धेर्विकारिणः प्रकाशरहितस्य मृदादेः को विशेषः स्यात् ? न कोऽपि भेद इत्यर्थः। चिदाभासविनिर्मुक्ता बुद्धिर्मुद्रजडा। यदि केवलजडस्य ज्ञातताजनकत्वमभ्युपेयते तदा जडेन घटेनैव ज्ञातताजनने ब्रह्मणैव ज्ञातो घट इति भानसंभवाद्रुद्धः सर्वथा नैरर्थक्यमेव स्यात् । न हि घटसतामात्रेण बुद्धिव्यापाराभावे ज्ञातो घट इति ज्ञानं केनाप्यनुभूयते । अतो जडात् घटा द्बुद्धेर्विशेषलाभाय तस्य चिदाभाससाहित्यमवश्यमभ्युपेयमिति भावः ॥ ८ ॥

 उक्तमर्थं प्रपञ्चयति, ज्ञात इति ।

ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् ।
धीमात्रव्याप्तकुंभस्य ज्ञातत्वं नेष्यते तथा ॥ ९॥

 कुत्रचित्कुत्रापि मृदा लिप्तः कुंभो ज्ञात इति नोच्यते । तथा धीमात्र व्याप्तकुंभस्य चिदाभासरहितेन जडेन धीमात्रेण व्याप्तो यः कुंभस्तस्य ज्ञातत्वं नेष्यते नोत्पद्यते । तदजननेन धीमालव्याप्तावपि ज्ञात इति नोच्यत इति भावः॥९॥

 उक्तार्थम् निगमयति, ज्ञातत्वमिति ।

ज्ञातत्वं नाम कुंभेऽतश्चिदाभासफलोदयः ।
न फलं ब्रह्मचैतन्यं मानात्प्रागपि सत्त्वतः ॥ १० ॥

 अत आभासहीनाया बुद्ध्या जातत्वजनकत्वाभावात् कुंभे ज्ञातत्वं नाम चिदाभासफलोदयः चिदाभासव्याप्तिरूपस्य फलस्योदय उत्पत्तिः । चिदाभास व्याप्या घटादिज्ञानमुदेतीति भावः । ननु चिदाभासेनायं घट इति ज्ञानरूपफलो-