एवं सति किमायातमित्याशंक्याह, आभास इति ।
आभास उदितस्तस्मात् ज्ञातत्वं जनयेद्धटे । |
तस्मात् ब्रह्मचितः फलत्वाभावस्य सिद्धत्वात् घटे उदितो व्याप्त आभासश्चिदाभासः “अयं । घटः इति ज्ञातत्वं जनयेत् । तद्ज्ञातत्वं त्वज्ञातत्ववदेव । यथा बुद्ध्युदयात्पुराऽज्ञातत्वं ब्रह्मणा भास्यते तद्वदेव ब्रह्मणैव भास्यं भवति ॥१३॥
एवं ब्रह्मचिदाभासयोः स्वरूपतो भेदम् प्रदर्श्य विषयभेदेनापि तत् दर्शयति, धीरिति ।
धीवृत्याभासकुंभानां समूहो भास्यते चिता । |
धीवृत्त्याभासकुंभानां विषयाकाराकारिता धीवृतिः तदवभासकश्चिदाभासः तद्विषयः कुंभस्तेषां समूहश्चिता ब्रह्मचैतन्येन भास्यते । चिदाभासस्य कुंभमात्रफलत्वात् कुंभमात्रवृत्तिज्ञाततारूपफलरूपत्वात्। आभासतश्चिदाभासतः स एको घट एव स्फुरेत् । चिदाभासः कुंभमात्रमेव ज्ञापयति । एवं च चितो धीवृत्त्याभासकुंभास्त्रयी विषयाः, आभासस्य तु कुंभमात्रमेव विषय इति विषयतोऽपि भेदः स्पष्ट एव ॥ १४॥
एवं घटस्य चिदाभासब्रह्मोभयभास्यत्वे लिङ्गमाह, चैतन्येति ।
चैतन्यं द्विगुणं कुम्भे ज्ञातत्वेन स्फुरत्यतः । |
अतो घटस्य चिदाभासब्रह्मचैतन्योभयभास्यत्वात् कुंभे चैतन्यं ज्ञातत्वेन द्विगुणं स्फुरति । यथोदितमेवंप्रकारेणोदितं - घटज्ञाततावभासकं ब्रह्मचैतन्यमन्ये नैयायिकादयोऽनुव्यवसायाख्यं ज्ञानान्तरमाहुः । व्यवसायो ज्ञानं तदनुसारि तद्विषयिकं ज्ञानं अनुव्यवसायीत्युच्यते ॥ १५॥
उक्तमर्थ संक्षिपति, घट इति ।