पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३५१
कल्याणपीयूषव्याख्यासमेता

घटोऽयमित्यसावुक्तिराभासस्य प्रसादतः ।
विज्ञातो घट इत्युक्तिर्ब्रह्मानुग्रहतो भवेत् ॥ १६ ॥

 अयं घट इत्यसावुक्तिराभासस्य चिदाभासस्य प्रसादतो भवेत् । घटो विज्ञात इत्युक्तिर्ब्रह्मानुग्रहतो घटाधिष्ठानीभूतब्रह्मचैतन्यस्यानुग्रहतो भवेत् ॥ १६ ॥

कूटस्थचिदाभासयोर्विवेचनाप्रकारः ।

 एवं यथा बाह्यप्रपंचे चिदाभासब्रह्मचैतन्ययोर्विवेचना क्रियते तथैव देहेऽपि कूटस्थचिदाभासयोर्विवेचना कर्तव्येत्याह, आभासेति ।

आभासब्रह्मणी देहाद्बहिर्यद्वद्विवेचिते ।
तद्वदाभासकूटस्थे विविच्येतां वपुष्यपि ॥ १७ ॥

 स्पष्टोऽर्थः ॥ १७ ॥

 बाह्ये घटादिवृत्तिवत् देहे विषयगोचरवृत्यभावेऽपि चिदाभासव्याप्ताह- मादिवृत्तिसद्भावात् तद्व्यापकश्चिदाभासोऽप्यवगन्तुं शक्यत इति दृष्टान्तमुखेनाह, अहमिति ।

अहंवृत्तौ चिदाभासः कामक्रोधादिकासु च ।
संव्याप्य वर्तते तप्ते लोहे वह्निर्यथा तथा ॥ १८ ॥

 यथा वह्निस्तप्ते लोहेऽविशेषतया संव्याप्य वर्तते तथा चिदाभासः अहंवृत्तौ कर्तुत्वाद्यभिमानवत्बुद्धिवृत्तौ कामक्रोधादिकासु च संव्याप्याविशेषेण वर्तते ॥१८॥

 अहमादिधीवृत्तीनां चिदाभासभास्यत्वमेव सदृष्टान्तं प्रपंचयति, स्वमात्रमिति।

स्वमात्रम् भासयेत्तप्तं लोहं नान्यत्कदाचन ।
एवमाभाससहिता वृत्तयः स्वस्वभासिकाः ॥ १९॥

 अग्निना तप्तं लोहं स्वमात्रमेव भासयेत् ; अन्यद्वस्तु कदाचन न भासन्येत् । एवमाभाससहिता धियोऽहमादिवृत्तयः स्वस्वभासिकाः स्वस्वरूपमेव भासयन्ति ॥१९॥