एवं चिदाभासस्वरूपं निरूप्य कूटस्थस्वरूपोपपादयिषया आदौवृत्य- भावावस्थानं दर्शयति, क्रमादिति ।
क्रमाद्विच्छिद्य विच्छिद्य जायन्ते वृत्तयोऽखिलाः। |
अखिला बुद्धिवृत्तयः क्रमात् विच्छिद्य विच्छिद्य एकवृत्तेर्नाशोत्तरमपराया उत्पत्तेरित्येवम् क्रमेण जायन्ते । अनेन चिदाभासविशिष्टानां धियां सन्धिसमये तासामभावः सूच्यते । सर्वा अपि वृत्तयः सुप्तिमूर्छासमाधिषु विलीयन्ते ॥ २०॥
समस्तवृत्तिविलये तत्साक्षी निर्विकारस्वरूपः कूटस्थ इत्युच्यत इत्याह संधय इति ।
संधयोऽखिलवृत्तीनामभावाश्चावभासिता: । |
जाग्रति चिदाभासविशिष्टानां अखिलवृत्तीनां सन्धयः उत्पत्तिविनाशयोर्मध्ये वृत्यभावविशिष्टकालरूपाः, सुप्त्यादिषु तासामभावश्च कूटवन्निर्विकारेण तिष्ठता येन अवभासिताः, स कूटस्थ इत्युच्यते । चोऽवधारणे ॥ २१ ॥
कुंभे इव अहमाद्यान्तरवृत्तिष्वपि चैतन्यद्वैगुण्यं प्रदर्शयति, घट इति ।
घटे द्विगुणचैतन्यं यथा बाह्ये तथान्तरे । |
यथा बाह्ये घटेऽयं घट इति केवलघटस्फोरकं चिदाभासचैतन्यं ज्ञातो मया घट इति घटज्ञाततास्फोरकं ब्रह्मचैतन्यमिति द्विगुणचैतन्यं भासते तथा आन्तरे अन्तर्वृत्तिषु चैतन्यद्वैगुण्यं भासते । ततो द्वैगुण्यसद्भावादेव तत्र संध्यपेक्षया वृत्तिषु संधितोऽधिकं वैशद्यम् दृश्यते । वृत्तिशून्यतादशायां अज्ञानसद्भावात् कूटस्थस्य स्वप्रकाशस्वभावतया सत्यपि भानेऽज्ञानावरणवशात् अभात इव भातीति तदानींतनभानमविशदम्। वृत्तिसद्भावे वृत्तिप्रतिफलितचिदाभासवशात् तद्भानं विशदं भवति । तदेवे संधितो वैशद्यस्याधिक्यम् ॥ २२॥