पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३५३
कल्याणपीयूषव्याख्यासमेता

 घटादिष्विव अहमादिवृत्तिष्वपि ज्ञातताज्ञाततावभासकत्वमेव कूटस्थस्य कुतो नोच्यते इत्याशंक्य तत्र ज्ञातत्वाज्ञातत्वाभावान्नोच्यत इत्याह, ज्ञाततेति ।

ज्ञातताज्ञातता न स्तो घटवद्वृत्तिषु क्वचित् ।
स्वस्य स्वेनागृहीतत्वात्ताभिश्चाज्ञाननाशनम् ॥ २३ ॥

 यथा घटस्य ज्ञानव्याप्तत्वे ज्ञातता, तदभावेऽज्ञातता च संभवतः, तथा वृत्तिषु धीवृत्तिषु क्वचित् कदापि ज्ञातता अज्ञातता न स्तः तत्र कारणमाह,- स्वस्येति । स्वस्य धीवृत्तेः स्वेन धीवृत्या अगृहीतत्वात् धीवृत्तिरन्यद्वस्तु विषयत्वेन गृह्णाति, न तु स्वं विषयम् । अनेन ज्ञानव्याप्त्यभावो दर्शितः । ताभिः धीवृत्तिभिः अज्ञाननाशनात् निवर्तनात् , अनेनाज्ञानव्याप्त्यभावो दर्शितः । अज्ञाततापि न संभवतीत्यर्थः । अत्रायं भावः । वृत्तीनां स्वत:प्रकाशत्वेन ज्ञानान्तरव्याप्तिर्नास्तीति ज्ञातता न संभवति । तथैव ज्ञानरूपाणां तासामुत्पत्तिमात्रेणाज्ञानं निवर्तत इत्यज्ञातता च न संभवति। अतो घटादाविव आसु ज्ञातत्वाज्ञातत्वे न संभवत इति । भावः ॥२३ ।।

 ननु चिदाभासकूटस्थयोश्चेतनत्वाविशेषेऽपि एकस्य कूटस्थत्वमन्यस्याकूटस्थत्वं कुत इत्याशंक्याह, द्विगुणीकृतेति ।

द्विगुणीकृतचैतन्ये जन्मनाशानुभूतितः ।
अकूटस्थं तदन्यत्तु कूटस्थमविकारतः ॥ २४॥

 द्विगुणीकृतचैतन्ये चैतन्यद्वैगुण्ये जन्मनाशानुभूतितः जाग्रत्स्वप्नावस्थयोः जन्मनाशयोः सुषुप्त्यादिषु जन्मनो नाशस्य च अनुभूतितः अनुभूयमानत्वात् विकारिस्वरूपत्वादित्यर्थः । तच्चिदाभासचैतन्यं अकूटस्थं । तदन्यत्तु कुटस्थचैतन्यं तु अविकारतः जन्मनाशाद्यात्मकविकारस्य तस्याविद्यमानत्वात् । कूटस्थं भवतीत्यर्थ:॥ २४ ॥

 चिदाभासव्यतिरिक्तः कूटस्थो न स्वकपोलकल्पितः किंतु पूर्वाचार्यैरप्यभ्युपगत इत्याह, अंत इति ।

अन्तःकरणतद्वृत्तिसाक्षीत्यादावनेकधा ।
कूटस्थ एव सर्वत्र पूर्वाचार्यैर्विनिश्चित: ॥ २५ ॥

45