पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३५४
[कूटस्थदीप
पञ्चदशी

 अन्तःकरणतद्वृत्तिसाक्षीत्यादौ--

"अन्तःकरणतद्वृत्तिसाक्षिचैतन्यविग्रहः ।

आनन्दरूपः सत्यः सन् किं नात्मानं प्रपद्यसे ॥“ इति

श्रीभगवत्पादानां वाक्यवृत्त्यादावनेकधा कूटस्थ एव सर्वत्र अन्तःकरणे अहंकरादिवृत्तिषु तत्संधिषु च सत्य आनन्दरूपः चैतन्यमेव विग्रह इवास्तीति भगवत्पादादि पूर्वाचार्यैर्विनिश्चितः ॥२५॥

 कूटस्थातिरिक्तचिदाभासोऽपि तैरङ्गीकृत इत्युपदेशसाहस्रीवाक्यं (१८- ४३) प्रमाणयति,आत्मेति ।

आत्माभासाश्रयाश्चैवम् मुखाभासाश्रया यथा ।
गम्यन्ते शास्त्रयुक्तिभ्यामित्याभासश्च वर्णितः ॥ २६ ॥

 मुखाभासाश्रयाः मुखम्, आभासस्तत्प्रतिबिंबम्, आश्रयः तदाश्रयो दर्पणादिश्च यथा गम्यन्ते प्रत्यक्षेण प्रतीयन्ते तथा आत्माभासाश्रयाः, आत्मा कूटस्थः आभासः छायात्मकः चिदाभासः तस्याश्रय उपाधिरन्तःकरणं च ते ; एवं शास्र युक्तिभ्यां, "रूपं रूपं प्रतिरूपो बभूव"(कठ २-५-१०) इत्यादिशास्त्रेण विकारि- त्वाविकारित्वादियुक्त्या च गम्यन्तेऽभ्युपगम्यन्त इत्युपदेशसहस्र्याम् वर्णितः ॥ २६ ॥

 चिदाभासकल्पनानावश्यकतां शंकते, बुद्धीति ।

बुद्ध्यवच्छिन्नकूटस्थो लोकान्तरगमागमौ ।
कर्तुं शक्तो घटाकाश इवाभासेन किं वद ।। २७॥

 बुद्ध्यवच्छिन्नकूटस्थः बुद्ध्युपाधिकः कूटस्थः पुण्यपापफलानुभवाय धूम्रोत्तरमार्गाभ्यां लोकान्तरगमागमौ स्वर्गादेर्गमनं क्षीणे पुण्ये कर्मशेषानुभवाय मर्त्यलोकं प्रत्यागमश्च घटाकाश इव यथा घटाकशः घटेन साकं गमनागमने करोति तद्वत् कर्तुं शक्तः । तस्मादाभासेन तद्ध्युपगमनेन किं प्रयोजनं वद ॥ २७ ॥

कूटस्थकल्पनागौरववादनिरासः ।

 न ह्यसंगः कूटस्थः बुद्धिपरिच्छेदमात्रात् जीवत्वमाप्नोतीति हितोपदेशरूपेण समाधते, शृण्विति।