पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३५५
कल्याणपीयूषव्याख्यासमेता

श्रृण्वसंगः परिच्छेदमात्रात् जीवो भवेन्न हि ।
अन्यथा घटकुड्याद्यैरवच्छिन्नस्य जीवता ॥ २८ ॥

 शृणु, असंगः कूटस्थः वृद्धेः परिच्छेदमात्रात् जीवो न भवेद्धि। अनुपपतिं दर्शयति, अन्यथेति । अन्यथा घटकुड्याद्यैरवच्छिन्नस्य ब्रह्मचैतन्यस्य जीवताऽऽपतेत् । न चैतदिष्टं तवापीति भावः ॥ २८॥

 बुद्धिकुड्ययोः स्वच्छतास्वच्छतावैषम्येन नेयमापत्तिरित्याह, नेति ।

न कुड्यसदृशी बुद्धिः स्वच्छत्वादिति चेत्तथा ।
अस्तु नाम परिच्छेदे किं स्वाच्छयेन भवेत्तव ।। २९ ॥

 कूटस्थावच्छेदिका बुद्धिः स्वच्छत्वात् प्रकशयुक्तत्वात् कुड्यसदृशी नेत्युच्यते चेत् तथा अस्तु नाम । परिच्छेदे सति स्वाच्छयेन तव किं प्रयोजनं भवेत् ? न हि कूटस्थस्य जीवत्वाप्तेः परिच्छेदकस्य स्वच्छता कारणमिति भावः ॥ २९ ॥

 उक्तमर्थं दृष्टान्तयति, प्रस्थेति ।

प्रस्थेन दारुजन्येन कांस्यजन्येन वा न हि ।
विक्रेतुस्तंडुलादीनां परिमाणं विशिष्यते ॥ ३० ॥

 दारुजन्येन अस्वच्छेन कांस्यजन्येन स्वच्छेन वा प्रस्थेन आढकचतुर्थोशपरिमाणेन मानपात्रेण तंडुलादीनां विक्रेतुर्मेयधान्यस्य परिमाणं न विशिष्यते न भिद्यते हि ॥३०॥

 कांस्यदारुप्रस्थयोः परिमाणे विशेषाभावेऽपि प्रथमे प्रतिबिंबस्य विशेष इत्याशंक्य तर्हि बुद्धौ चिदाभासोऽपि भवताऽनिच्छताप्यभ्युपगत एवेत्याह,परिमाणेति।

परिमाणाविशेषेऽपि प्रतिबिंबो विशिष्यते ।
कांस्ये यदि तदा बुद्धावप्याभासो भवेद्बलात् ॥ ३१ ॥