कांस्य प्रस्थे तंडुलादिमेयवस्तुनः परिमाणाविशेषेऽपि तत्र कांस्यप्रस्थे प्रतिबिंबो यदि विशिष्यते तदा कूटस्थः स्वच्छया बुद्ध्या परिच्छिन्न इत्युक्तेर्बलात् बुद्धावपि कूटस्थः प्रतिबिबितः सन् आभासो भवतीति भवताऽभ्युपगत एव बलात् भवेत् ॥ ३१॥
ननु बुद्धौ कुटस्थः प्रतिबिंबितः स्यात् । तथापि कथं तस्य चिदाभासत्वमङ्गीक्रियत इत्याशंक्य प्रतिबिंबाभासयोः समानार्थकत्वादित्याह, ईषदिति ।
ईषद्मासनमाभासः प्रतिबिंबस्तथाविधः। |
ईषद्धासनमाभासो भवति । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः एतमातंडितं विद्यादित्युक्ते: आङ: ईषदर्थकत्वात् । प्रतिबिंबोऽपि तथाविधः ईषद्मासनमेव । अतः प्रतिबिंबाभासशब्दयोः समानार्थकतेत्यर्थः । प्रतिबिंबस्याभासत्वं कथं सिध्यतीत्याशंक्याह, बिंबेति । बिंबलक्षणहीनः बिंबधर्मरहितः सः प्रतिबिंबः बिंबवत् भासते, चिदिव ईषत्साम्येन आभासत इति व्युत्पत्तिरत्राभिहिता भवति ॥ ३२ ॥
बिंबवद्भासनं विवृणोति, ससंगत्वेति ।
ससंगत्वविकाराभ्यां बिंबलक्षणहीनता। |
एतस्य चिदाभासस्य ससंगत्वविकाराभ्यां अहमादिसंगराहित्यं जन्मनाशादिविकारश्च ताभ्यां बिंबलक्षणहीनता बिंबात्मकत्वहीनता स्फूर्तिरूपत्वं कूटस्थवत् स्फूर्तिरूपत्वं बिंबवद्भासनमिति च विदुः। चिदाभासः कूटस्थस्वरूपेणावभासते । किंतु ससंगत्वविकाराभ्यां स न भवतीत्यर्थः ॥३३॥
चिदाभासस्य बुद्धेः पार्थक्यप्रदर्शनम् ।
एवं चिदाभासस्य सार्थकतां प्रदर्शये तस्य बुद्धेश्व पार्थक्यविवक्षया बुद्ध्यभेदमाशंक्य प्रतिबंध्या प्रतिवदति, नेति ।
न हि धीभावभावित्वादाभासोऽस्ति धियः पृथक् । |