पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६०
[कूटस्थदीप
पञ्चदशी

ब्रह्मेत्यवगन्तुं सुशकमेव । व्यवहारप्रयोजकं सामनाधिकरण्यं द्विविधं मुख्यं गौणं वेति । सर्वथाऽभेदे मुख्यं सामानाधिकरण्यम् । उत्तरकालं विरुद्धांशस्य सत्यां बाधायां विद्यमानं सामानाधिकरण्यं गौणम् । प्रकृते अहंब्रह्मास्मीत्यत्र अहंकाराद्यवच्छिन्नस्य जीवस्य ब्रह्मणाऽभेदाभावेऽपि विद्ययाऽहंकारादेर्विरुद्धांशस्य बाधायां ब्रह्माभेदस्य सत्त्वादौपचारिकं सामानाधिकरण्यम् । तादृशसामानाधिकरण्यमादाय “अहं ब्रह्मस्मी"ति व्यवहार उपपद्यत इतिभावः ॥ ४२ ॥

बाधसामानाधिकरण्येन वाक्यार्थज्ञानप्रकारनिरूपणम् ।

 उक्तमर्थं दृष्टान्तप्रदर्शनेन विशदयति, य इति ।

योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव ।
ब्रह्मास्मीति धियाऽशेषाहंबुद्भिर्निवर्त्यते ॥ ४३ ॥

 पुरोवर्तिनं पुरुषं तमसि पश्यता याऽयं पुरोवर्ती स्थाणुरिति भ्रान्या संभाव्यते । एष पुमानित्याकारिकया पुंधिया स्थाणुधीरिव, यथा स्थाणुत्वविशिष्टधीः निवर्त्यते तथा नाहं जीवः किंतु ब्रह्मास्मीति धियाऽशेषाहंबुद्धिः अहंत्वविशिष्टा बुद्धिः निवर्त्यतेऽपाक्रियते । यथा स्थाणुरयमिति स्थाणुत्वविशिष्टव्यक्तिविषयकं ज्ञानं प्रथमतो जायते । अनंतरमाप्तवाक्यदिना एष पुमानिति पुंस्त्वविशिष्टविषयकज्ञानेन जायमानः पूर्वज्ञानस्य बाधो व्यक्त्यंशे पर्यवसितुमनर्हः स्थाणुत्वांशे पर्थवस्यति । तथा प्रकृतेऽप्यहं ब्रह्मास्मीति ज्ञानस्य ब्रह्मास्मीति ज्ञानेन जायमानो बाघः व्यक्त्यंशे पर्यवसितुमनर्हः विशेषणोभूताहंत्वाद्यंशे पर्यवस्यति । तदानींतनाभेदमादाय सर्वत्र सामानाधिकरण्येन व्यवहार इति भावः ॥ ४३ ॥

 सुरेश्वराचार्यचरणैरप्येवमेवोक्तमित्याह, नैष्कर्म्येति ।

नैष्कर्म्यसिद्धावप्येवमाचार्यै: स्पष्टमीरितम् ।
सामानाधिकरण्यस्य बाधार्थत्वमतोऽस्तु तत् ॥ ४४ ॥

 आचार्यै: सुरेश्वरैः। अतोऽहंब्रह्मास्मीति वाक्ये सामानाधिकरण्यस्य तद्वाधार्थत्वमस्तु इतिनैष्कर्म्यसिद्धावीरितम् । ब्रह्मण्यहंपदार्थसामानाधिकरण्येन