प्रयोगः सामानाधिकरण्यविघटकाहंत्वादिबाधफलक: ब्रह्मात्मावगत्यनन्तरं अहंपदार्थस्य सामानाधिकरण्यस्य बाधनार्थं अहं ब्रह्मास्मीति वाक्येऽहंशब्दस्य प्रयोग इति भावः ।। ४४ ॥
एवं सामानाधिकरण्येन लोकव्यवहारदर्शनेऽपि श्रौतस्य तादृशव्यवहारस्यादर्शनात् वैदिकानामस्माकं भवदुक्तौ न विश्वास इत्याशंकां श्रौतव्यवहार प्रदशर्नने परिहरति, सर्वमिति ।
सर्वं ब्रह्मेति जगता सामानाधिकरण्यवत् । |
“सर्वं खल्विदं ब्रह्म" (छां.३.१४.१)“इदं ब्रह्मेदं सर्व” (बृ.२.५.६.) मित्यादिश्रुतिषु सर्वं जगत् ब्रह्मेति विशेषणांशबाधकालिकाभेदमादाय जगता सामानाधिकरण्यसिद्धिः संभवति । तद्वत् "अहं ब्रह्मे"ति वाक्ये विनाशिनो जीवस्य अविनाशिना ब्रह्मणा सह सामानाधिकृतिर्भवेत् ॥४५॥
विवरणाचार्यकृतमुख्यसामानाधिकरण्यविवरणम् ।
नन्वेवं विवरणकाराणां बाधसामनाधिकरण्यनिराकरणप्रयासो विफल एव स्यादित्याशंक्य तदाशयं विवृणोति, सामानाधिकरण्येति ।
सामानाधिकरण्यस्य बाधार्थत्वं निराकृतम् । |
अहं ब्रह्मास्मीत्यत्र अहमिति शब्देन कूटस्थस्य विवक्षया कूटस्थो बोधित इति वक्तुमिच्छया प्रयत्नतो विवरणे ग्रन्थे अहं ब्रह्मेति शब्दयोः सामानाधिकरण्यस्य बाधार्थत्वं निराकृतम् । यदि बाधसामानाधिकरण्यमभ्युपगच्छेद्विवरणकारस्तदा तद्विवक्षितं सामानाधिकरण्यबलादहंशब्दस्य कूटस्थपरत्वं न सिध्येत् । जीवपरत्वेऽपि तत्र बाधसामानाधिकरण्योपपत्तेः । जीवपरत्वाभ्युपगन्तृणामस्माकं बाधसामानाधिकरण्याभ्युपगमे न काऽपि क्षतिरिति भावः ।। ४६ ॥
अहंशब्दस्य विवरणकाराणामभिप्रेतमर्थं विशदयति, शोधित इति ।
शोधितस्त्वंपदार्थो यः कूटस्थो ब्रह्मरूपता । |