पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३६५
कल्याणपीयूषव्याख्यासमेता

 वृत्तेः कामादिबुद्धिवृत्तेः, वृत्तिप्रागभावस्य, बुभुत्सायाः जिज्ञासायाः, तथा अज्ञोऽस्मीत्याभाताज्ञानवस्तुनः अज्ञोस्मीत्यनुभवविषयभावरूपाज्ञानस्य च, इदमुपलक्षणमन्त:करणस्यापि, साक्षितया स्थितः यः साक्षी स तद्भिन्नः यस्तु न भिद्यते स न तत्साक्षी यथा वृत्त्यादीतिव्यतिरेकेण दृष्टान्तो बोध्यः । एतेन वाक्येन कूटस्थस्य वृत्यादिभ्यो भेदेऽनुमानं दर्शितम् ॥ ५६ ॥

 सः साक्षी शिवः असत्यालंबनत्वेन, असत्यस्य जगतः आलंबनमधिष्ठानं तस्य भावेन सत्यः सत्यस्वरूपः । अनेन साक्षी शिवस्सत्यः, असत्यजगदधिष्ठानत्वात्, असत्यरजताधिष्ठानव्यावहारिकसत्यशुक्तिवदित्यनुमानमुक्तम् । सर्वजडस्य तु साधकत्वेन प्रकाशकत्वेन, चिद्रूपः, अनेन साक्षी शिवश्चिद्रूप:, सर्वजडावभासकत्वात्। यश्चिद्रूपो न भवति स सर्वजडावभासकोऽपि न भवतेि यथा घटादीत्यनुमानमुक्तम् । सदा प्रेमास्पदत्वतः प्रेमविषयत्वादानंदरूपः । अनेन शिवः परमानंदरूपः परप्रेमास्पदत्वात्, यन्नैवं तन्नैवं यथा घटादीत्यनुमानमुक्तम् ॥ ५७ ॥

 शिवसंज्ञितः शिव इति नाम्ना वर्णितः चिद्रूप: सर्वार्थसाधकत्वेन सर्वजडपदार्थप्रकाशकत्वेन हेतुना सर्वसंबंधवत्वेन सर्वैश्स्य संबंधोऽस्तीति हेतुना संपूर्णः । अनेन अयं संपूर्णः, सर्वसंबंधित्वात्, गगनवदित्यनुमानमुक्तम् । अयं सर्वसंबंधी, सर्वावभासकत्वात्, यन्नैवं तन्नैवं यथा प्रदीपादीत्यानुमानेन पूर्वानुमाने सर्वेसंबंधित्वरूपहेतुस्साध्यः ॥ ५८ ॥

 पूर्वोक्तश्लोकत्रयार्थमुपसंहरति, इतीति ।

इति शैवपुराणेषु कूटस्थः प्रविवेचितः ।
जीवेशत्वादिरहितः केवलः स्वप्रभः शिवः ॥ ५९ ।।

 इत्येवं शैवपुराणेषु स्कांदवाय्वादिषु जीवेशत्वादिरहितः मायाकल्पित- जीवेशभावरहितः केवलाऽद्वितीयः स्वप्रभः स्वप्रकाशः शिवो मङ्गलरूपः कूटस्थ: प्रविवेचितः ॥ ५९॥

जीवेश्व भेदविचारः

 जीवेशत्वादिराहित्ये तयोर्मायाकल्पितत्वमेव कारणमिति चित्रदीपे पंचपंचाशदुत्तरशततमे श्लोके तृप्तिदीपे तृतीयस्मिन् श्लोके चोक्तमर्थं स्मारयति,