पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/३९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥८॥ ]
३६७
कल्याणपीयूषव्याख्यासमेता

 ईशस्यापि मायाकल्पितत्वे सोऽपि जीव इवाज्ञः स्यादित्याशंक्य तस्य सर्वज्ञत्वादिकमपि मायाकल्पितमित्याह, सर्वज्ञेति ।

सर्वज्ञत्वादिकं चेशे कल्पयित्वा प्रदर्शयेत् ।
धर्मिणं कल्पयेद्याऽस्याः को भारो धर्मकल्पने ॥ ६४ ॥

 माया ईशे सर्वज्ञत्वादिकं कल्पयित्वा प्रदर्शयेत् । तत्रोपपत्तिमाह, धर्मिणमिति । या माया धर्मिणमीशं कल्पयेदस्याः धर्मकल्पने को भारः ? ॥ ६४ ॥

कूटस्थस्य सत्यत्वनिरूपणम् ।।

 ननु कूटस्थोऽपि मायाकल्पितः स्यादिति शंकां वारयति, कूटस्थ इति ।

कूटस्थेऽप्यतिशंका स्यादिति चेन्मातिशंक्यताम् ।
कूटस्थमायिकत्वे तु प्रमाणं न हि विद्यते ॥ ६५॥

 माऽतिशंक्यताम् प्रमाणमतिक्रम्य शंकां मा कुर्वीत । अतिशंकाया अकरणे कारणमाह, कूटस्थेति । कूटस्थमायिकत्वे कूटस्थस्य मायाकल्पितत्वे प्रमाणं नहि विद्यते स्पष्टमन्यत् ॥ ६५॥

 न केवलं कूटस्थमायिकत्वे प्रमणाभावः, किन्त्वमायिकत्वे तस्य प्रमाण बाहुल्यम् च दृश्यत इत्याह, वस्तुत्वमिति ।

वस्तुत्वं घोषयन्त्यस्य वेदान्ताः सकला अपि ।
सपत्नंरूपं वस्त्वन्यन्न सहन्तेऽत्र किं च न ॥ ६६ ॥

 स्पष्टं पूर्वार्धम् । वस्तुत्वं पारमार्थिकसत्यत्वम् । अत्र कूटस्थपारमार्थिकत्वविषये सपत्नरूपं विपक्षभूतमन्यद्वस्तु किंचन ते न सहन्ते । “ सदेव सोभ्येदमग्र आसीदि"त्यादिश्रुतेः (छ. ६. २. १) ॥ ६६ ॥

मुमुक्षूणां श्रुतिरेव शरणम् ।

 मुमुक्षुजनोपयोगिन्यस्मिन् ग्रन्थे श्रुतीनां स्पष्टार्थविचारणैवेष्टा न तु कर्क शतर्कोपन्यास इत्याह, श्रुत्यर्थमिति ।

श्रुत्यर्थं विशदीकुर्मो न तर्काद्बच्मि किंचन ।