न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । |
चित्रदीपे पंचत्रिंशदुत्तरद्विशततमे श्लोके निरूपितोऽस्यार्थः ॥ ७१॥
श्रुतिबोधिततत्त्वनिर्णयः।
ननु जगज्जीवेश्वरा अपि श्रुतिषु तत्र तत्र श्रूयन्ते इत्याशंक्य वागाद्यती तस्य परब्रह्मणः सुखावबोधनायेत्याह, अवागिति ।
अवाङ्मनसगम्यं ते श्रुतिर्बोधयितुं सदा । |
अवाङ्मनसगम्यं ते परमात्मानं बोधयितुं सदा जीवमीशं जगद्वापि प्रतीयमानं वस्तु समाश्रित्य प्रबोधयेत् । ज्ञातवस्तुद्वाराऽज्ञातवस्त्ववगमनं भवतीति भावः ॥ ७२ ॥
ननु जगज्जीवेशादीनाश्रित्य परमार्थप्रबोधेऽपि श्रुतीनामनेकप्रकारा बोधनारीतिः। "जीवेशावाभासेन करोती"त्याभासवाद एकः । "रूपं रूपं प्रतिरूपं बभूवे"ति प्रतिबिंबवादोऽन्यः। "घटसंवृतमाकाशं नीयमाने घटे यदा। घटो नीयेत नाकाशस्तद्वज्जीवो नभोपमः ,” इत्यवच्छिन्नवादोऽपरः तस्मात् किं नैकरूपमुपदिशति श्रुतिरित्याशंक्य सोपदेश्यबुद्धिवैशद्यमनुधावति । न च भिन्नमार्गप्रदर्शनेन तत्त्वबोधने किंचिदप्यस्या विगानमित्याह, ययेति ।
यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि । |
यया यया प्रक्रियया बोधनरीत्या भिन्नरुचीनां जिज्ञासूनां पुंसां प्रत्यगात्मनि व्युत्पत्तिः श्रवणमननादिना विशेषेण ज्ञानोत्पत्तिः भवेत् सा प्रक्रियैव इह साध्वी विषयावगमे साध्वी भवेदित्याचार्यभाषितं सुरेश्वरोक्तिः ॥ ७३॥
ननु श्रुतिप्रमाणैक्ये कथं तत्प्रमाणप्रवृत्तानां वैदिकानामपि मतवैमत्यमित्यत आह, श्रुतीति ।
श्रुतितात्पर्यमखिलमबुद्ध्वा भ्राम्यते जडः । |
श्रुतितात्पर्यमेकवाक्यतया प्रवृत्तानामशेषश्रुतीनां तात्पर्यमखिलम् समग्रतया