पास्यते? कुतोऽयं प्रश्नः ? "आदित्यं ब्रह्मेत्युपासीत", इत्यत्र आदित्यब्रह्मणोः सामानाधिकरण्येनोभयोर्विशेषाभावात् । उच्यते—ब्रह्मदृष्ट्यैव अन्यदालंबनमुपासितव्यम् । न ह्यविकारेऽनन्ते ब्रह्मणि सर्वैः पुंभिः शक्या बुद्धिः स्थापयितुं मन्दमध्यमोत्तमबुद्धित्वात् पुंसां। अत्यन्तानारूढनिर्गुणब्रह्मभावानां विचारचतुरेतराणामुपकारकतया इयमुपास्तिर्विधीयते । उत्कृष्टदृष्ट्या निकृष्टोपास्ति:फलवतीति लोकप्रसिद्धा। यथा राजदृष्ट्या सेवितो राजपुरुषः प्रसन्नो भवति । निकृष्टदृष्टिप्रतिष्ठितो त्कृष्टोपास्तिरनिष्टमेवप्रसूते, यथा राजपुरुषदृष्ट्या सेवितो राजा। “स य एवं विद्वानादित्यं ब्रह्मेत्युपास्ते” (छां ७.२.२), “यः संकल्पं ब्रह्मेत्युपास्ते", (छां ७.४.३) इत्याद्युपास्तिप्रतिपादकश्रुतिषु ब्रह्मशब्दसंवलितेतिशब्दसामर्थ्यादयमेवार्थः परिग्राह्यः । एवं सत्यकामत्वसत्यसंकल्पत्वाद्यपेतस्य कार्यब्रह्मण उपास्तिरपि फलं नियच्छति । "फलमत उपपत्तेः", (ब्र.सू. ३. २. ३८) इति सूत्रात् । ब्रह्मापि पृथिव्याद्युपाधिसंबंधात्तदाकारतामिव प्रतिपद्यते तदालम्बनो ब्रह्मण आकारविशेषोपदेश उपासनार्थो न विरुध्यते । किंत्वयं विशेषः । निर्गुणब्रह्मसाक्षात्कारमापन्नो जीवन्मुक्तो भवति । “न तस्य प्राणा उत्क्रामन्ते", (बृ.४.४.६.) किंतु स्वोपादाने एव विलीयन्ते । अपरिपक्कोपासकस्तु मरणकाले वा ब्रह्मलोके वा मुक्तो ब्राह्मणा सह मुच्यते।
ननु निर्गुणब्रह्मदृष्ट्या प्रणवादिकमिव जीवादिकमप्युपास्यं स्यात्, तस्यापि ब्रह्मविकारित्वादिति चेन्न, उभयोरत्यन्तभिन्नधर्मत्वात् । नामरूपाद्यवच्छिन्नं जडात्मकं प्रतीकम् । तदनवच्छिन्नमत्यन्तविरुद्धस्वभावं परं निर्गुणं ब्रह्म । न हि नामरूपाद्युपमर्दनं विना ब्रह्मभावापत्तिरुमपद्यते । नायं सर्पः रज्जुरेवेति ज्ञाने सर्पबुद्धिरूपमृद्यते । न तथा प्रतीकस्य नामरूपोपमर्दनसिद्धिः । यस्योपास्यस्य यन्मात्रतया उपासना विधीयते तस्य तन्मात्रतयैवोपासना कर्तव्या । "न प्रतीके न हि सः" । (ब्र.सू.४.१.४.) इति सूत्रादिति दिक् ॥१॥
संवादिभ्रमप्रकाशकं वार्तिककारवाक्यं पठति, मणीति ।
मणिप्रदीपप्रभयोर्मणिबुद्ध्याऽभिधावतोः । |