पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३७३
कल्याणपीयूषव्याख्यासमेता

 मणिप्रदीपप्रभयोर्मणेः प्रदीपस्य च प्रभयोः मणिबुद्ध्या मणिरिति बुद्ध्या तल्लाभायाभिधावतोः एको मणिप्रभां दृष्ट्वा मणिभ्रमेण प्रवृत्तः, अन्यः प्रदीपप्रभां दृष्ट्वा रक्तिमसाम्यान्मणिरिति भ्रान्त्या प्रवृत्तः । एवं मणिलिप्सया प्रवृत्तयोर्द्वयोरपि मणिं प्रति मिथ्याज्ञानाविशेषेऽप्यर्थक्रियां प्रति स्वाभीप्सितार्थलार्भ प्रति विशेषो विद्यते । मणिप्रभायां भ्रम ईप्सितं मणिं प्रापयति, प्रदीपप्रभायां भ्रमस्तु न तथा ॥ २ ॥

 उक्तं वार्तिकवचनं त्रिभिः श्लोकैर्विवृणोति, दीप इति ।

दीपोऽपवरकस्यान्तर्वर्तते तत्प्रभा बहिः ।
दृश्यते द्वार्यथाऽन्यत्र तद्वद्दृष्टा मणेः प्रभा ॥ ३ ॥
दूरे प्रभा यं दृष्ट्वा मणिबुद्ध्याभिधावतोः ।
प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानं द्वयोरपि ।। ४ ॥
न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता ।
प्रभायां धावताऽवश्यं लभ्येतैव मणिर्मणेः ।। ५ ॥

 दीपः अपवरकस्यान्तः राजसौधान्तर्गृहे रक्तिमादि विविधवर्णविरचिते वर्तते। तत्प्रभा सौघस्य बहिर्द्वारि मुग्धजनेन दृश्यते । अथ पक्षान्तरेऽन्यत्रापवरकान्तरे मणेः प्रभा तद्वत् बहिर्द्वार्यन्येन दृष्टा ॥ ३॥

 एवं दूरे मणिदीपयोः प्रभाद्वयं दृष्ट्वा उभयत्र मणिबुध्याऽभिधावतोर्द्वयोरपि प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानमेव ॥ ४ ॥

 दीपप्रभां दृष्ट्वा मणिभ्रान्त्या प्रत्यभिधावता मुग्धेनेप्सितो मणिर्नलभ्यते । मणेः प्रभायां मणिबुद्ध्या धावताऽवश्यं मणिर्लभ्येत एव ॥ ५॥

 अद्य संवादिविसंवादिभ्रमावुदाहरति, दीपेति ।

दीपप्रभामणिभ्रान्तिर्घिसंवादिभ्रमः स्मृतः।
मणिप्रभा मणिभ्रान्तिः संवादिभ्रम उच्यते ॥ ६ ॥