पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
[ध्यानदीप
पञ्चदशी

 दीपप्रभामणिभ्रान्तिर्दीपप्रभायां मणिरिति भ्रमः स्वार्थासंपादकत्वाद्विसंवादिभ्रम इति स्मृतः । मणिप्रभामणिभ्रान्तिः स्वार्थसंपादकत्वात्संवादिभ्रम इत्युच्यते॥६॥

 एवं प्रत्यक्षजन्यं संवादिभ्रमं विशदीकृत्य अनुमानजन्यं तं विशदयति,बाष्पमिति।

बाष्पं धूमतया बुद्ध्वा तत्राङ्गारानुमानतः ।
वह्निर्यदृच्छया लब्धः स संवादिभ्रमो मतः ॥ ७॥

 हेमन्तादावनुभूयमानं हिमतुषारावरणं बाष्पं धूमतया धूम इति बुद्ध्वा तत्राङ्गारानुमानतः 'पर्वतो वह्निमान् , धूमवत्त्वा'दित्यनुमानरचनया प्रवृत्तेन यदृच्छयाऽकस्मात् वह्निर्लब्धः। एवं वह्निप्राप्ते: प्रयोजकीभूतो हैमंतप्रातःकालप्रालेये धूमभ्रमस्संवादिभ्रम इति मतः ॥७॥

 आगमिविषयसंवादिभ्रमं दर्शयति, गोदावरीति ।

गोदावर्युदकं गङ्गोदकं मत्वा विशुद्धये ।
संप्रोक्ष्य शुद्धिमाप्नोति स संवादिभ्रमो मतः ॥८॥

 गोदावर्युदकं गङ्गोदकमिति मत्वा भ्रान्त्या विशुद्धये शिरसि संप्रोक्ष्य शुद्धिमाप्नोति । गोदावर्युदकस्यापि विशुद्धिकारणत्वमागमप्रसिद्धम् । अतो गङ्गोदकप्रोक्षणफलमाप्नोति । तथापि गोदावर्युदकं गङ्गोदकमिति बुद्धिः भ्रम एव। फलकारीति स संवादिभ्रमो मतः ॥ ८ ॥

 आगमविषये उदाहरणान्तरमाह, ज्वरेणेति ।

ज्वरेणाप्तः सन्निपातं भ्रान्त्या नारायणं स्मरन् ।
मृतः स्वर्गमवाप्नोति स संवादिभ्रमो मतः ॥ ९॥

 ज्वरेण सन्निपातमाप्तः चित्तविक्षेपणात् भ्रान्त्याऽस्य भ्रान्तिरनेकथा संभवति, परमार्थतो नारायणं भगवत्त्वेनाबुद्ध्वा । साधारणपुरुषत्वेन ज्ञानं भ्रान्तिः । यथा चैद्यादे, बुद्ध्वापि शत्रुत्वेन ज्ञानं यथा कंसादेः, मित्रत्वेन वा ज्ञानं यथाऽर्जुनादे:,नारायणपदस्य पुत्रनामत्वेन ज्ञानमपि भ्रान्तिः यथाऽजामीलादेः, एवंविध