भ्रान्या नारायणं स्मरन् मृतः स्वर्गमवाप्नोति । सेयं नारायणशब्दस्य पुत्रनामत्वादिभ्रान्तिः संवादिभ्रमः, स्वर्गफलकत्वात् ॥९॥
एवं संवादिभ्रमानामनेकत्वं लभ्यत इत्याह प्रत्यक्षस्येति ।
प्रत्यक्षस्यानुमानस्य तथा शास्त्रस्य गोचरे । |
स्पष्टोऽर्थः ॥ १०॥
संवादिभ्रमेणेप्सितार्थलाभाभावे मृद्दारुशिलाद्युपासनानामुपनिषद्वोधि- तानामन्यासामुपासनानां च नैरर्थक्यापत्तिः स्यादित्याह, अन्यथेति ।
अन्यथा मृत्तिकादारुशिलाः स्युर्देवताः कथम् । |
अन्यथा संवादिभ्रमेणेप्सितार्थलाभाभावे देवत्वेन प्रतिदिनं पूज्यमानाः मृत्तिकादारुशिलाः, मृत्तिका पार्थिवलिंगम्, दारु जगन्नाथः, शिला सालग्रामः, एताः कथं देवता देवत्वेन पूज्याः स्युः ? एवं कर्मकलापकलितमृदाद्युपासनायाः सार्थकतां प्रदर्शय ततोऽप्युत्कृष्टायाश्छांदोग्योक्तपंचाग्न्याद्युपासनायाः सार्थकतां प्रदर्शयति, अग्नीति । योषिदादयः अग्नित्वादिधिया वा कथमुपास्या भवन्ति? "योषा वा व गौतमाग्नि:"(छाम्. ५,४-५, ६,७), इत्यादिवाक्यैर्योषित्पुरुष- पृथिवीपर्जन्यद्युलोकानामग्नित्वेनोपासना पंचाग्निविद्यायां विधीयते । अग्निधियोपा- स्तिस्संवादिभ्रमो भवति, “तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयती"ति(छां,५.१०.१.) तत्फलत्वेनामृतत्वसिद्धेः श्रूयमाणत्वात् ॥ ११ ॥
एवमनेकलक्ष्यप्रदर्शनपूर्वकं निरूपितं संवादिभ्रमलक्षणं बोधनासौलभ्याय संक्षिपति, अयथेति ।
अयथावस्तुविज्ञानात्फलं लभ्यत ईप्सितम् । |
अयथावस्तुविज्ञानात्, वस्त्वनतिक्रम्य यथावस्तु, अनतिक्रमार्थेन यथा-