शब्देन ‘अव्ययं विभक्ती'त्यादिना समासः, तस्य विज्ञानं वस्तुनः स्वरूपज्ञानं, तन्न भवतीति तथाभूतं, तस्मात्, अतद्वस्तुबुद्धेरिति यावत् , ईप्सितं बांछितं फलं काकतालीयतः, काक इव तालमिव काकतालं, काकतालमिव काकतालीयम् । अत्र काकपदं काकागमनपरम्, तालफलं । तालफलपतनपरम् , काकतालपदं काकतालसमागमप्रयोज्यकाककृततालफलोपभोगपरम् । अवितर्कितसंभवत्वं साधारणो धर्मः । एवं च यत्र फलमवितर्कितसम्भवं तत्र काकतालीयन्याय इति भावः । ततो लभ्यते सोऽयं संवादिभ्रम इत्युच्यते ॥ १२॥
संवादिभ्रमवत् ब्रह्मोपासनापीप्सितार्थप्रदेत्याह, स्वयमिति ।
स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः । |
स्पष्टोऽर्थः ॥ १३ ॥
ब्रह्म परोक्षमवगम्योपासना कर्तव्या।
एवं सति ब्रह्मस्वरूपं ज्ञात्वोपासना कर्तव्या उत अज्ञात्वेत्याकांक्षायां । परोक्षमवगम्योपासितव्यमित्याह, वेदान्तेभ्य इति ।
वेदान्तेभ्यो ब्रह्मतत्त्वमखंडैकरसात्मकम् । |
वेदान्तेभ्यः 'अस्ति ब्रह्मेति चेद्वेदे'त्यादिवेदान्तवाक्यानां गुरुमुखतः श्रवणादखंडैकरसात्मकं भेदत्रयशून्यमानंदरसघनं ब्रह्मतत्वं ब्रह्मणो यथार्थस्वरूपं परोक्षमवगम्य ज्ञात्वा साक्षात्कारासमर्थः पुरुषो ब्रह्मास्मीत्यहंग्रहोपासनयोपासते । ब्रह्मणोऽस्तित्वं शास्त्रेभ्योऽवगम्योपासना कर्तव्येति भावः ॥ १४॥
उपास्यब्रह्मतत्त्वस्य परोक्षज्ञानस्वरूपं निरूपयति, प्रत्यगिति ।
प्रत्यग्व्यक्तिमनुल्लिख्य शास्त्राद्विष्ण्वादिमूर्तिवत् । |
प्रत्यग्व्यक्तिम् प्रत्यगात्मानं साक्षिभूतमनुल्लिख्य अविषयीकृत्य “सत्यं ज्ञान