पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥]
३७७
कल्याणपीयूषव्याख्यासमेता

मनन्तं ब्रह्मे"त्यादिश्रुतिप्रसिद्धम् ब्रह्मास्तीति सामान्याकारं ज्ञानमविशेषज्ञानं, अत्रास्मिन्नुपासनाप्रकरणे परोक्षधीरित्युच्यते । तत्रोदाहरणमाह, शास्त्रादिति । यथाशास्राद्विष्ण्वादिमूर्तिवत् विष्ण्वादिदेवतानां काचन मूर्तिः व्यक्त्त्युल्लेखनं विना शास्त्रप्रमाणादस्तीति धीर्विद्यते तद्वत् ॥ १५॥

 शास्त्रप्रतिपादितानां विष्ण्वादिमूर्तीनां ज्ञानस्य कथं परोक्षत्वमुच्यते करचरणादिविशिष्टविग्रह- विशेषप्रतीतेरित्याशंक्याह, चतुर्भुजेति ।

चतुर्भुजाद्यवगतावपि मूर्तिमनुल्लिखन् ।
अक्षै: परोक्षज्ञान्येव न तदा विष्णुमीक्षते ॥ १६ ॥

 चतुर्भुजाद्यवतगतावपि, आदिशब्देन शंखचक्रगदादयः तेषां शास्त्रादवगतावपि ज्ञाने सत्यपि विष्ण्वादेः मूर्तिमक्षै: प्रत्यक्षतः अनुल्लिखन् अविज्ञाय केवल- शास्त्रावगतज्ञानेन चतुर्भुजादिधरः कश्चिद्विग्रहवानस्तीति परोक्षज्ञान्येव भवति । तदा तादृग्ज्ञानसमये विष्णुमपरोक्षतया नेक्षते ॥ १६ ॥

 ननु व्यक्त्त्युल्लेखमन्तरा परोक्षज्ञानं भ्रममूलकं स्यादित्याशंक्य शास्त्रजन्यस्त्वान्न तथात्वमित्याह, परोक्षत्वेति ।

परोक्षत्वापराधेन भवेन्नाऽतत्त्ववेदनम् ।
प्रमाणेनैव शास्त्रेण सत्यमूर्तेर्विभासनात् ।। १७ ॥

 परोक्षत्वापराधेन ज्ञानं परोक्षमिति न्यूनतामात्रेणातत्त्ववेदनमयथार्थज्ञानं न भवेत् । भ्रमो न भवतीत्यर्थः । तत्र कारणमाह, प्रमाणेति । प्रत्यक्षादिप्रमाणातीत विषयेषु प्रमाणेन ज्ञानसंपादनैकसाधनीभूतेन शास्त्रेणैव सत्यमूर्तेः वस्तुगत्या वैकुंठे विद्यमानायाः मूर्तेः विभासनात् ज्ञायमानत्वात् । अज्ञातविषयेषु शास्त्रमेव प्रमाणम्। नातस्तज्जन्यं ज्ञानं परोक्षत्वमात्रेण भ्रमो भवतीति भावः ॥ १७॥

 तथैव शास्त्रप्रतिपादितं ब्रह्मणः सच्चिदानंदादिस्वरूपत्वं परोक्षज्ञानमेव । अपरोक्षसाक्षात्कारावश्यकीभूतप्रत्यक्तत्वोल्लेखाभावादित्याह, सदिति ।

सच्चिदानंदरूपस्य शास्त्राद्भानेऽप्यनुल्लिखन् ।
प्रत्यंच साक्षिणं तत्तु ब्रह्मसाक्षान्न वीक्षते ॥ १८॥

48