पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७८
[ध्यानदीप
पञ्चदशी

 सच्चिदानंदरूपस्य परब्रह्मणः “सद्धीदं सर्वं तत्सदि"त्यादिशास्त्राद्भानेऽपि ज्ञानेऽपि प्रत्यंचं प्रत्यगात्मानमनुल्लिखन् अविषयीकुर्वन् तद्ब्रह्म साक्षादपरोक्षतया न वीक्षते । प्रत्यगनुल्लेखिनो ज्ञानस्य साक्षात्कारत्वाभावात्परोक्षत्वमेवेति भावः॥१८॥

ब्रह्मणः परोक्षज्ञानस्य प्रमात्वविचारः ।

 ब्रह्मणः परोक्षज्ञानं भ्रमो न भवति, किन्तु प्रमैवेत्याह, शास्त्रोक्तेनेति ।

शास्त्रोक्तेनैव मार्गेण सच्चिदानंदनिश्चयात् ।
परोक्षमपि तद्ज्ञानं तत्त्वज्ञानं न तु भ्रमः ॥ १९ ॥

 शास्त्रोक्तेनैव मार्गेण परब्रह्मणः सच्चिदानंदनिश्चयात् सच्चिदानंदरूपं ब्रह्मेति निश्चयात् तद्ज्ञानं परोक्षमपि तत्वज्ञानमेव प्रमैव शास्त्रजन्यत्वात् । न तु भ्रमः ॥ ११॥

 ननु सच्चिदानंदात्मकं परं ब्रह्मेति शास्त्रोपदिष्टं ज्ञानं प्रत्यग्व्यक्त्यनुल्लेखित्वात्परोक्षम् भवतु । तत्वमसीत्यादिवाक्यैः प्रत्यग्रूपत्वमपि तस्य बोध्यत इति तच्छास्त्रजन्यज्ञानस्य प्रत्यग्व्यक्त्युल्लेखित्वादापरोक्ष्यं कुतो नेत्याशंक्याह,ब्रह्मेति।

ब्रह्म यद्यपि शास्त्रेषु प्रत्यक्त्वेनैव वर्णितम् ।
महावाक्यैस्तथाऽप्येतद्दुर्बोधमविचारिणः ॥ २० ॥

 शास्त्रेषु महावाक्यैस्तत्त्वमस्यादिभिः ब्रह्म प्रत्यक्त्वेनैवापरोक्षतयैव यद्यपि वर्णितम् । तथाप्यविचारिणः मननादेरभावात्तत्वंपदार्थविवेकशून्यस्यैतदपरोक्षोल्लेखनं दुर्बोधं न सुखेनावगम्यम् । अतस्तत्त्वमस्यादिवाक्यमप्यपरोक्षज्ञानजनकं भवतीति भावः ॥ २०॥

 ननु सर्वं तत्त्वज्ञानं प्रमाणाधीनम् । प्रमाणं च महावाक्यादिरूपं शास्त्रेषु श्रूयते । तैर्ब्रह्मतत्त्वमवगम्यते । एवं सति विचारेण विना कथं तस्य दुर्बोधत्वमित्याशंक्याह, देहेति ।

देहाद्यात्मत्वविभ्रान्तौ जाग्रत्यां न हठात्पुमान् ।
ब्रह्मात्मत्वेन विज्ञातुं क्षमते मंदधीत्वतः ॥ २१ ॥

 देहात्यात्मत्वविभ्रान्तौ स्थूलदेहादिकोशपंचकमेवात्मेति विशेषेण भ्रान्तौ