पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४११

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥९॥ ]
३७९
कल्याणपीयूषव्याख्यासमेता

जाग्रत्यां मंदधीत्वतः द्वैतविवेचनासमर्थत्वात्पुमान् हठात्कारणमनपेक्ष्यैवात्मत्वेन ब्रह्म विज्ञातुं न क्षमते । चिरकालाभ्यस्तद्वैतविवेचनारूढदृढज्ञानस्यैव तत्साध्यमिति । भावः ॥ २१ ॥

 ननु देहाद्यात्मत्वविभ्रान्तौ जाग्रत्यामद्वितीयब्रह्मविषयकपरोक्षज्ञानमपि दुर्घटमेव स्यादित्याशंक्याह, ब्रह्मेति ।

ब्रह्ममात्रं सुविज्ञेयं श्रद्धालोः शास्त्रदर्शिनः ।
अपरोक्षद्वतबुद्धिः परोक्षाद्वतबुद्ध्यनुत् ॥ २२॥

 श्रद्धालो:, गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा तद्वतः । शास्त्रदर्शिनः पूर्वापरपर्यालोचनापूर्वकशास्त्रार्थज्ञानसहितस्य ब्रह्ममात्रं ब्रह्मसत्तामात्र सम्यक्परोक्षत्वेन विज्ञातुं योग्यम् । शास्त्रपरिशीलनं श्रद्धालुता च ब्रह्मस्तीति ज्ञाने साधिक इत्यर्थः । ननु द्वतज्ञाने जाग्रति कथं परोक्षस्यापि ब्रह्मज्ञानस्य सिद्धिरित्याशंक्याह, अपरोक्षेति । अपरोक्षद्वैतबुद्धिः प्रत्यक्षतो द्वैतस्यानुभवः परोक्षाद्वैतबुद्ध्यनुत् अद्वितीयब्रह्मणः परोक्षज्ञानस्य अविरोधी। नह्यपरोक्षं नवज्ञानं दशमोऽस्तीति परोक्षज्ञानेन विरुध्यत इति भावः । “स्वसिद्धान्तव्यवस्थामु द्वैतिनो निश्चिता दृढम् । परस्परं विरुध्यन्ते तैरयं न विरुध्यत” इति (मां. ३-१७) गौडपादाचार्यवाक्यमनुसृत्य, द्वैतं त्वद्वैतविरोधि न तु द्वैतविरोध्यद्वैतमिति तात्पर्यम्॥ २२ ॥

 तत्र दृष्टान्तं दर्शयति, अपरोक्षेति ।

अपरोक्षशिलाबुद्धिर्न परोक्षेशतां नुदेत् ।
प्रतिमादिषु विष्णुत्वे को वा विप्रतिपद्यते ॥ २३ ॥

 अपरोक्षशिलाबुद्धिः प्रत्यक्षतया सिद्धा सालग्रामादिशिलाविषयकबुद्धिः परोक्षेशतां परोक्षमीशज्ञानं न नुदेत् न नाशयेत् । विरोधाभावमनुभवेन दर्शयति, प्रतिमेति । प्रतिमादिषु प्रत्यक्षेषु विष्णुत्वे वस्तुगत्या चतुर्मुजादिविशिष्टविष्णुसत्त्वविषये शास्त्रबोधिते को वा विप्रतिपद्यते विवदते ॥२३॥

 ननु सन्त्येव केचिद्विप्रतिपद्यमाना इत्यत आह, अश्रद्धेति ।

अश्रद्धालोरविश्वसो नोदाहरणमर्हति ।