श्रद्धालोरेव सर्वत्र वैदिकेष्वधिकारतः ॥ २४ ॥ |
सर्वत्र वैदिकेषु वेदविहितानुष्ठानविषयेषु श्रद्धालोरेव वेदविश्वासयुक्तस्यैवाधिकारतः अधिकृतत्वात्, अश्रद्धालोर्नास्तिकस्याविश्वास उदाहरणं नार्हति । श्रुतिवाक्ये प्रामाण्यबुद्धिः श्रद्धा; तत्कार्यभूतस्य फलस्यावश्यंभावित्वनिश्चयो विश्वासः । वेदप्रामाण्यबुद्धिरेवास्तिकत्वलक्षणमिति गूढाभिसंधिः ॥ २४॥
एवं परोक्षज्ञानसिद्धिर्न कामपि मीमांसामर्हतीत्याह, सकृदिति ।
सकृदाप्तोपदेशेन परोक्षज्ञानमुद्भवेत् । |
सकृदाप्तोपदेशेन सकृद्यस्य कस्यचिदाप्तस्य यथार्थज्ञानयुक्तस्य अनन्यधावादिनः उपदेशेन परोक्षज्ञानमुद्भवेत् । उक्तार्थं पूर्वोक्तदृष्टान्तदर्शनेन समर्थयति, विष्ण्विति । मीमांसां विचारणां। स्पष्टमन्यत् ॥२५॥
तर्हि किंमूलकोऽयं शास्त्रार्थविचारविस्तर इत्यत आह,कर्मेति ।
कर्मोपास्ती विचार्येते अनुष्ठेयाविनिर्णयात् । |
अनुष्ठेयाविनिर्णयादाचरणयोग्यस्य मंदधियामनिश्चितत्वात्तेषां तन्निर्णयाय कर्मोपास्ती कर्मोपास्तिरूपानुसरणीयमार्गे विचार्येते । कुतोऽयमनिर्णय इत्यत आह, बह्विति । बहुशाखाविप्रकीर्णं बह्वीषु वेदशाखासु, "अनन्ता वै वेदाः" इत्युक्तेः । विप्रकीर्णं विशेषेण तत्र तत्र विक्षिप्तम् कर्मोपास्तिरूपमेकत्र समाहृत्य निर्णेतुं को नरः प्रभुः समर्थः ? न कोपीत्यर्थः ॥२६॥
कर्मोपास्त्योरनुष्ठेयाविनिर्णये तयोरननुष्ठानमेव प्राप्तमित्याशंक्याह, निर्णीत इति ।
निर्णीतोऽर्थः कल्पसूत्रैर्ग्रथितस्तावताऽऽस्तिकः । |